शब्दकल्पद्रुमः
ब्रह्महुतं || क्ली (ब्रह्मणि ब्राह्मणे हुतम् दत्तम् । ब्रह्मपदमत्र उपलक्षणं तेन नृमात्रे बोध्यम् ।) पञ्चमहायज्ञान्तर्गतयज्ञविशेषः । स तु नृयज्ञः । अतिथिपूजनरूपः । इति जटाधरः ॥