संस्कृत-शब्दकोशः

ब्रह्माङ्गभू ब्रह्माणी

ब्रह्माञ्जलि

वाचस्पत्यम्

ब्र(व्र)ह्माञ्जलि ||‍ पु० ब्र(व्र)ह्मण वेदपाठाय अञ्जलिः गुरौ कृतोविनयाञ्जलिः, स्वरविशेषज्ञापनार्थं वा कृतीञ्जलिः सं- कुचितपाणिः । वेदपाठार्थं गुरुनिकटे कार्य्ये १ विनयाञ्जलौ स्वरविशेषार्थज्ञापनाय कृतसङ्कोचे २ पाणिद्वये च अमरः ।


शब्दकल्पद्रुमः

ब्रह्माञ्जलिः || पुं, (ब्रह्मणे वेदपाठार्थं कृतो यो- ऽञ्जलिः ।)
सामवेदपाठे स्वरविभागार्थं यो- ऽञ्जलिः क्रियते सः । अध्ययनस्यादावन्ते च गुरवे प्रणवोच्चारणपूर्ब्बकोऽञ्जलिः क्रियते सः । तत्पाठार्थत्वात् ब्रह्मणोऽञ्जलिः । इत्यमर- टीकायां भरतः । २ । ७ । ३९ ॥ (यथा, मनुः । २ । ७०-७१ । “अध्येष्यमाणस्त्वाचान्तो यथाशास्त्रमुदङ्मुखः । ब्रह्माञ्जलिकृतोऽध्याप्यो लघुवासा जिते- न्द्रियः ॥ ब्रह्मारम्भेऽवसाने च पादौ ग्राह्यौ गुरोः सदा । संहत्य हस्तावध्येयं सहि ब्रह्माञ्जलिः स्मृतः ॥”)



Correction: