वाचस्पत्यम्
ब्र(व्र)ह्माणी || पु० ब्र(व्र)ह्माणम् आनयति जीवयति अन- णिच्—अण् पूर्व० णत्वम् । ब्रह्मशक्तौ “हंसयुक्ते विमा- नस्था साक्षसूत्रकमण्डलुः । आयाता ब्रह्मणः शक्तिः ब्रह्माणी साऽभिधीयते” इति देवीमा० । “ब्रह्माणी ब्रह्म- जननाद्” देवीपु० । ब्रह्मशब्दात् ङीष् आनङ् चेति त्वपाणिनीयम् । २ रेणुकानामगन्धद्रव्ये रत्नमा० । २ राजरीतौ राजनि० । ३ ब्रह्मणोऽर्द्धशरीरादुत्पन्नायां शतरूपायाम् । “ततः संजपतस्तस्य भित्त्वा देहमकल्म- षम् । स्त्रीरूपमर्द्धमकरोदर्द्धं पुरुषरूपवत् । शतरूपा च सा ख्याता सावित्री च निगद्यते । सरस्वत्यथ गायत्री ब्रह्माणीत्युच्यते च सा” मत्स्यपु० ३ अ० ।
शब्दकल्पद्रुमः
ब्रह्माणी || स्त्री (ब्रह्माणमणति कीर्त्तयतीति । अण शब्दे कर्म्मण्यण् । ङीप् । यद्वा, ब्रह्माण- मानयति जीवयतीति । अनघ्लुप्राणने ण्यन्ता- दस्मात् कर्म्मणि अणि कृते “णेरनिटि । ६ । ४ । ५१ । इति णिलोपः “टिड्ढेति ।” ४ । १ । १५ । इति ङीप् पूर्ब्बपदादितिणत्वञ्च ।)
ब्रह्मणः पत्नी । इति शब्दमाला ॥ ब्रह्मणोऽर्द्धशरीरात् तस्या उत्पत्तिर्नामान्तरञ्च यथा, —
“ततः संजपतस्तस्य भित्त्वा देहमकल्मषम् । स्त्रीरूपमर्द्धमकरोदर्द्धं पुरुषरूपवत् ॥ शतरूपा च सा ख्याता सावित्री च निगद्यते । सरस्वत्यथ गायत्त्री ब्रह्माणी च परन्तप ! ॥” इति मत्स्यपुराणे ३ अध्यायः ॥ * ॥
अपि च । “हंसयुक्तविमानाग्रे साक्षसूत्रकमण्डलुः । आयाता ब्रह्मणः शक्तिर्ब्रह्मार्णी साभिधीयते ॥” इति मार्कण्डेयपुराणे । ८८ । १४ ॥ * ॥
(इयं हि पूर्णशक्तेर्दुर्गायाः कलाशक्तिः । यदुक्तं मार्कण्डेये । ९० । ३४ । देव्युवाच । “एकैवाहं जगत्यत्र द्वितीया का ममापरा । पश्यैता दुष्ट ! मय्येव विशन्त्यो मद्विभूतयः ॥ ततः समस्तास्ता देव्यो ब्रह्माणी-प्रमुखा लयम् । तस्या देव्यास्तनौ जग्मुरेकैवासीत्तदाम्बिका ॥”)
दुर्गा । यथा, —
“ब्रह्माणी ब्रह्मजननाद्ब्रह्माक्षरपरा मता ॥” इति देवीपुराणे ४५ अध्यायः ॥ * ॥
रेणुकानामगन्धद्रव्यम् । इति रत्नमाला ॥ राज- रीतिः । इति राजनिर्घण्टः ॥