वाचस्पत्यम्
ब्र(व्र)ह्मार्पण || न० १ सर्वकर्मकर्त्त्राद्यात्मकतया ब्रह्मचिन्तने ब्रह्मणि परमात्मनि ईश्वरे २ सर्वकर्मफलानां सन्यासे च तत्- प्रकारः कूर्मपु० ४ अ० उक्तो यथा “ब्रह्मणा दीयते देयं ब्रह्मणे संप्रदीयते । ब्रह्मैव दीयते चेति ब्रह्मार्पणमिदं परम् । नाहं कर्त्तासर्वमेतद्ब्रह्मैव कुरुते तथा । एतत् ब्रह्मार्पणं प्रोक्तं ऋषिभिस्तत्त्वदर्शिभिः । प्रीणातु भगवानीशः कर्मणा- ऽनेन शाश्वतः । करोति सततं बुद्ध्या ब्रह्मार्पणमिदं परम् । यद्वा फलानां सन्न्यासं प्रकुर्य्यात् परमेश्वरे । कर्मणामेत- दप्याहुर्व्रह्मार्पणमनुत्तमम्” ।
शब्दकल्पद्रुमः
ब्रह्मार्पणं || क्ली (ब्रह्मैवार्पणमितिविग्रहे यदर्पणं तद्ब्रह्मैव । यथा, गीतायाम् । ४ । २४ ॥ “ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणाहुतम् ॥” “ब्रह्मार्पणं येन करणेन प्रकारेण ब्रह्मविद्भि- रग्नावर्पयति तद्ब्रह्मैवेति पश्यति तस्यात्म- व्यतिरेकेणाभावं पश्यति यथा शुक्तिकायां रजताभावं पश्यति तद्बदुव्यते ब्रह्मैवार्पणमिति यथा यद्रजतं तच्छुक्तिकैवेति । ब्रह्म अर्पण- मित्यसमस्ते पदे यदर्पणबुद्ध्या गृह्यते लोके तदस्य ब्रह्मविदो ब्रह्मैवेत्यर्थः । इति शाङ्कर- भाष्यम् ॥)
ब्रह्मणि समर्पणम् । तत्प्रकारा यथा, “ब्रह्मणा दीयते देयं ब्रह्मणे संप्रदीयते । ब्रह्मैव दीयते चेति ब्रह्मार्पणमिदं परम् ॥ नाहं कर्त्ता सर्व्वमेतद्ब्रह्मैव कुरुते तथा । एतद् ब्रह्मार्पणं प्रोक्तं ऋषिभिस्तत्त्वदर्शिभिः ॥ प्रीणातु भगवानीशः कर्म्मणानेन शाश्वतः । करोति सततं बुद्ध्या ब्रह्मार्पणमिदं परम् ॥ यद्वा फलानां संन्यासं प्रकुर्य्यात् परमेश्वरे । कर्म्मणामेतदप्याहुर्ब्रह्मार्पणमनुत्तमम् ॥” इति कूर्म्मपुराणे ४ अध्यायः ॥