संस्कृत-शब्दकोशः

ब्रह्मावर्त ब्रह्मास्त्र

ब्रह्मासन

वाचस्पत्यम्

ब्र(व्र)ह्मासन ||‍ न० ६ त० । ब्रह्मण ऋत्विग्भेदस्य १ आसने ब्रह्मास्तरणादयोऽप्यत्र । ब्रह्मणस्तदुपासनाङ्गमासनम् । २ पद्मस्वस्तिकादौ आसने । “ब्रह्मासनं तदावक्ष्ये यत् कृत्वा ब्राह्मणो भवेत् । एकपादमूरौ दत्त्वा तिष्ठेद्दण्डा- कृतिर्भवेत्” रुद्रया० उक्ते देवपूजाङ्गे ३ आसनभेदे च ।


शब्दकल्पद्रुमः

ब्रह्मासनं || क्ली (ब्रह्मणे ब्रह्मप्राप्त्यै आसनम् ।)
ध्यानासनम् । योगासनम् । इत्यमरः । २ । ७ । ४० ॥ ध्यानं परमार्थचिन्तनम् । योगश्चित्तवृत्तिनिरोध- मात्रम् । ध्यानं निराकारभावनम् । योगः साकारभावनमिति वा । तयोः पद्मस्वस्तिका- द्यासनं यत् तत्र ब्रह्मासनं स्यात् । इति भरतः ॥ (आसनविशेषः । तल्लक्षणं यथा, —
“ब्रह्मासनं तदा वक्ष्ये यत्कृत्वा ब्राह्मणो भवेत् । एकपादमुरौ दत्त्वा तिष्ठेद्दण्डाकृतिर्भवेत् ॥” ब्रह्मण आसनमितिविग्रहे ब्रह्मास्तरणम् ॥)



Correction: