संस्कृत-शब्दकोशः

ब्रह्मी ब्रह्मेशय

ब्रह्मीघृत

वाचस्पत्यम्

ब्र(व्र)ह्मीघृत ||‍ न० खारस्वतघृतमिति स्वाते औषधविशेषे यथा “समूलपत्रामुत्पाध्य ब्रह्मीं प्रक्षाल्य वारिणा । उदूखले खोदयित्वा रसं वस्त्रेण गालयेत् । रसे चतुर्गुणे तस्मिन् घृतप्रस्थं विपाचयेत् । हरिद्रा मालतीकुष्ठं वृहती च हरीतकी । एतेषां पालिकै- र्भागैः शेषास्तु कार्षिकाः स्मृताः । पिप्पल्योऽथ विड- ङ्गानि सैन्धवं शर्करा वचा । सर्वमेतत् समालोड्य शनै- र्मृद्वग्निना पचेत् । एतत् प्राशितमात्रेण वाग्विशुद्धिः प्रजायते । सप्तरात्रप्रयोगेण किन्नरैः सह गीयते । अर्द्धरात्रप्रयोगेण स्वरो भवति कोकिलः । मासमेकं प्रयोगेण भवेत् श्रुतिधरो नरः । पञ्च गुल्मान् प्रमेहाश्च कासं पञ्चबिधं जयेत् । सन्ध्यानाञ्चैव नारीणां नरा- णामल्परेतसाम् । घृतं स्वारस्वतं नाम बलवर्णवपुःप्रदम्” चिकित्सारत्नसंग्रहः ।


शब्दकल्पद्रुमः

ब्रह्मीघृतं || क्ली (ब्रह्मीजातं घृतम् ।)
औषध- विशेषः । सारस्वतघृतमिति ख्यातम् । यथा, —
“समूलपत्रामुत्पाट्य ब्रह्मीं प्रक्षाल्य वारिणा । उदूखले खोदयित्वा रसं वस्त्रेण गालयेत् ॥ रसे चतुर्गुणे तस्मिन् धृतप्रस्थं विपाचयेत् । हरिद्रा मालती कुष्ठं बृहती सहरीतकी । एतेषां पलिकैर्भागैः शेषास्तु कार्षिकाः स्मृताः ॥ पिप्पल्योऽथ विडङ्गानि सैन्धवे शर्करा वचा । सर्व्वमेतत् समालोड्य शनैर्मृद्वग्निना पचेत् ॥ एतत्प्राशितमात्रेण वाग्विशुद्धिः प्रजायते । सप्तरात्रप्रयोगेण किन्नरैः सह गीयते ॥ अर्द्धरात्रप्रयोगेण स्वरो भवति कौकिलः । मासमेकं प्रयोगेण भवेत् श्रुतिधरो नरः ॥ पञ्च गुल्मान् प्रमेहांश्च कासं पञ्चविधं जयेत् । बन्ध्यानाञ्चैव नारीणां नराणामल्परेतसाम् । घृतं सारस्वतं नाम बलवर्णवपुःप्रदम् ॥” इति जयनारायणकृतचिकित्सारत्नसंग्रहः ॥ (अपरञ्च । “ब्रह्मीरसे वचाकुष्ठशङ्खपुष्पीभिरेवच । पुराणं मेध्यमुन्मादग्रहापस्मारनाशनम् ॥” इति वैद्यकचक्रपाणिसंग्रहेऽपस्माराधिकारे ॥)



Correction: