वाचस्पत्यम्
ब्र(व्र)ह्मोद्य || न० वद—भावे क्यप् ६ त० । ब्रह्मप्रतिपादकवाक्ये कात्या० श्रौ० १२ । ४ । २० । २ ब्रह्मकथने च “ब्राह्मणा भगवन्तो हन्ताहमिमं (याज्ञ्यम्) द्वौ प्रश्नौ प्रक्ष्यामि तौ चेन्मे वक्ष्यति न वै जातु युष्माकमिमं कश्चित् ब्रह्मोद्यम् जेतेति” वृ० उ० ।
शब्दकल्पद्रुमः
ब्रह्मोद्यं || क्ली (ब्रह्मणो वेदस्य वदनम् । ब्रह्म + वद् + क्यप् ।)
ब्रह्मणो वाक्यम् । इति मुग्ध- बोधव्याकरणम् ॥