वाचस्पत्यम्
ब्र(व्र)ह्मोपनेतृ || पु० ब्रह्माणं विप्रमुपनयते तद्धेतुदण्डहेतु- त्वात् उप—नी—तृच् । पलाशवृक्षे “विप्रस्य पालाशो दण्ड” स्मृतिः ।
शब्दकल्पद्रुमः
ब्रह्मोपनेता || [ऋ] पुं, (ब्रह्माणं ब्राह्मणं उपनयते इति । ब्रह्म + उप + णि + तृच् । उपनयन- हेतुकदण्डत्वात्तथात्वम् ।)
पलाशवृक्षः । इति राजनिर्घण्टः ॥ ब्राह्मणोपनयनकर्त्ता च ॥