संस्कृत-शब्दकोशः

ब्राह्मणप्रिय ब्राह्मणयज्ञ

ब्राह्मणब्रुव

वाचस्पत्यम्

ब्रा(व्रा)ह्मणब्रुव ||‍ पु० ब्राह्मणं विप्रजातिमात्रतया आत्मानं ब्र वीति ब्रू—क बा० न वच्यादेशः । वेदतत्कर्महीने जाति- मात्रोजीविनि विप्रे “गर्भाधानादिमन्त्रैर्यो वेदोपनय- नेन च । नाध्यापयति नाधीते स भवेद्ब्राह्मणब्रुवः” व्यासस० । “जातिमात्रोपजीवी च कामं स्याद् ब्राह्मण- ब्रुवः । धर्मप्रवक्ता नृपतेर्न तु शूद्रः कथञ्चन” मनुः “सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे” मनुः ।


शब्दकल्पद्रुमः

ब्राह्मणब्रुवः || पुं, (ब्राह्मणवंशोत्पन्नतया वेदोक्त- कर्म्माकुर्व्वन्नपि आत्मानं ब्राह्मणं ब्रवीतीति । ब्राह्मण + ब्रू + क + बाहुलकात् न वच्यादेशः ।)
ब्राह्मणजातिमात्रोपजीवी । यथा, —
“विप्रः संस्कारयुक्तो न नित्यं सन्ध्यादि कर्म्म यः । नैमित्तिकन्तु नो कुर्य्यात् ब्राह्मणब्रुव उच्यते ॥ युक्तः स्यात् सर्व्वसंस्कारैर्द्विजस्तु नियमव्रतैः । कर्म्म किञ्चिन्न कुरुते वेदोक्तं ब्राह्मणब्रुवः ॥ गर्भाधानादिभिर्युक्तस्तथोपनयनेन च । न कर्म्मकृन्न चाधीते स ज्ञेयो ब्राह्मणब्रुवः ॥ अध्यापयति नो शिष्यान्नाधीते वेदमुत्तमम् । गर्भाधानादिसंस्कारैर्युतः स्याद्ब्राह्मणब्रुवः ॥” इति पाद्मोत्तरखण्डे १०९ अध्यायः ॥ तस्मै दाने फलविशेषो यथा, —
“सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे । अधीते शतसाहस्रमनन्तं वेदपारगे ॥” इति मानवे ७ । ८५ ॥



Correction: