संस्कृत-शब्दकोशः

ब्राह्मणयष्टि ब्राह्मणयष्टी

ब्राह्मणयष्टिका

शब्दकल्पद्रुमः

ब्राह्मणयष्टिका || स्त्री (ब्राह्मणस्य यष्टिरिव । ततः स्वार्थे संज्ञायां वा कन् अत इत्वञ्च ।)
वृक्ष- निशेषः । वामनहाटी इति भाषा । तत्पर्य्यायः । फञ्जिका २ ब्राह्मणी ३ पद्मा ४ भार्गी ५ अङ्गार- वल्ली ६ वालेयशाकः ७ वर्व्वरः ८ वर्द्धकः ९ । इत्यमरः । २ । ४ । ८९ ॥ ब्रह्मयष्टिः १० ब्रह्म- यष्टी ११ फञ्जीका १२ यष्टी १३ ब्रह्मयष्टिका १४ दुर्व्वरा १५ अङ्गारवल्लरी १६ बालेयः १७ ब्राह्मिका १८ । इति शब्दरत्नावली ॥ भृगु- भवा १९ पथ्या २० खरशाकः २१ हञ्जिका २२ । अस्या गुणाः । “भार्गी रूक्षा कटुस्तिक्ता रुच्योष्णा पाचनी लघुः । दीपनी तुवरा गुल्मरक्तनुन्नाशयेद्ध्रुवम् ॥ शोथकासकफश्वासपीनसज्वरमारुतान् ।” इति भावप्रकाशः ॥



Correction: