संस्कृत-शब्दकोशः

ब्राह्ममुहूर्त ब्राह्मिका

ब्राह्माहोरात्र

शब्दकल्पद्रुमः

ब्राह्माहोरात्रः || पुं, (ब्रह्मणोऽहोरात्रः ।)
ब्रह्मणो दिनयामिन्यौ । स तु दैवयुगसहस्रद्बयेन भवति । स च नृणां कल्पद्वयकालः । तत्र दिनमुदय- कल्पः रात्रिश्च क्षयकल्पः । इत्यमरटीकायां भरतः ॥ “दैविकानां युगानान्तु सहस्रं परिसंख्यया । ब्राह्ममेकमहर्ज्ञेयं तावती रात्रिरेव च ॥ तद्वै युगसहस्रान्तं ब्राह्मं पुण्यमहर्व्विदुः । रात्रिञ्च तावतीमेव तेऽहोरात्रविदो जनाः ॥” इति मानवे १ । ७३ ॥



Correction: