संस्कृत-शब्दकोशः

भ भकार

भकक्षा

वाचस्पत्यम्

भकक्षा ||‍ स्त्री ६ त० । नक्षत्रकक्षायाम् । “भवेत् भकक्षा तिग्मांशोर्भ्रमणं षष्टिताडितम् । सर्वो- परिष्टाद्भ्रमति योजनैस्तैर्भूमण्डलम्” सू० सि० । “सूर्य्यस्य भ्रमणं कक्षापरिधिमानं योजनात्मकम्” “खखार्थैकसुरार्णवाः” ४३२ १२०० इति वक्ष्यमाणं षष्ट्यागुणितं सत् नक्षत्राणां कक्षा नक्षत्राधिष्ठितगोलस्य मध्यवृत्तं स्यात् । तैर्नक्षत्रकक्षामितैर्योजनैर्भमण्डलं नक्ष- त्राधिष्ठितगोलमध्यवृत्तं सर्वोपरिष्टाच्चन्द्रादिसप्तग्रहेभ्य उपरि दूरं भ्रमति भूगोलादभितः परिभ्रमति” रङ्गना० ।



Correction: