वाचस्पत्यम्
भक्त || पुंन० भज—क्त । १ अन्ने ओदने अमरः । २ भक्तियुक्ते ३ तदात्मके ततपरे ४ विभक्ते कृतभागे च त्रि० “भक्तो हरः शुध्यति यद्गुणः स्यात्” लीला । अन्नपाकप्रकारस्त- द्गुणश्च मावप्र० उक्तो यथा “सुधोतांस्तण्डुलान् स्फीतांस्तोये पञ्चगुणे पचेद् । तद्भक्तं प्रशृतञ्चोष्णं विशदं गुणवन्मतम् । भक्तं वह्नि- करं पथ्यं तर्पणं रोचनं लथु । अधौतमशृतं शीतं गुर्वरुच्यं कफप्रदम्” । भक्तियुक्तलक्षणादिकं तद्भेदश्च मुक्ताफले उक्तं यथा “सकृन्मनः कृष्णपदारविन्दयोर्निवेशितं तद्गुणरागि यै- रिह” “ते भक्ताः इति लक्षणं स च नबधाहासादिनववि- धरसास्वादमूलकत्वेन नवविधत्वात्” । रसभेदे भक्तविशेषाः मुक्ताफले दर्शिताः यथा “तस्य तत् खेलनं दृष्ट्वा गोप्यः प्रेमपरिप्लुताः । व्रोडिताः प्रेक्ष्य चान्योऽन्यं जातहासा न निर्ययुः” भाग० १० । १२ अ० तथाच हासे गोप्य सम्भोगशृ- ङ्गारे गोप्यादयस्तत्र दर्शिताः । विप्रलम्भशृङ्गारेऽपि गोप्य स्तत्र दर्शिताः । “अन्तर्गृहगताः काश्चिद्गोप्योऽलब्धविनि- र्गमाः । इत्यादितद्भावनायुक्ता दध्युर्मीलितलोचनाः । दुः- सहप्रेष्ठविरहतीव्रतापधुताशुभाः । ध्यानप्राप्ताच्युताश्लेष- निर्वृत्त्या क्षीणमङ्गलाः । तमेव यरमात्मान जार- बुद्ध्याऽपि सङ्गताः । जहुर्गुणमयं देहं सद्यः प्रक्षीण- बन्धनाः । अन्यानि रासपञ्चाध्यायीवाक्यानि तत्रोदा- हृतानि दृश्यानि । करुणरमेऽर्जुनादयः । बाक्यानि तत्र दृश्यानि । रौद्ररसे हिरण्यकशिपुशिशुपालादयः । भायानकरसे कंसादयः । वीभत्सरसे पुरूरवाः पिङ्गला- दयश्च । शान्तरसे नारदादयः । अद्भुतरसे श्रीदाम- ब्रह्मादयः । वीररसे बलिप्रभृतयः । तत्र दानवीरे बलिः धर्मवीरसे कविप्रभृतयः । युद्धवीरे शिशुपालादयः । ए- तेषां मूलवाक्यानि तत्र दृश्यानि । अधिकं भक्तिशब्दे दृश्यम् “भक्तानां लक्षणं लक्ष्मि! गूढं श्रुतिपुराणयोः । पुण्य- स्वरूपं पापघ्नं सुखदं भक्तिमुक्तिदम् । सारमूतं गोप- नीयं न वक्तव्यं खलेषु च । गुरुवक्त्राद्विष्णुमन्त्रो यस्य कर्णे विशत्यलम् । वेदवेदाङ्गवेदान्तास्तं पवित्रं वदन्ति हि । पुरुषाणां शतं पूर्वं पूतं तज्जन्ममात्रतः । स्वर्गस्थं नरकस्थ वा मुक्तिमाप्नोति तत्क्षणात् । यैः कैश्चिद् यत्र वा जन्म लब्धं येषु च जन्तुषु च । जीवन्मुक्तास्ते च पूता यान्ति काले हरेः पदम् । मद्भक्तियुक्तो मत्पूजा- नियुक्तो मद्गुणाश्रितः । मद्गुणश्लाघनीयश्च सन्निविष्टश्च सन्ततम् । सगद्गदः साश्रुनेत्रः स्वात्मविश्रुत एव च । न वाञ्छति सुखं मुक्ति सालोक्यादिचतुष्टयम् । ब्रह्म- त्वममरत्वं वा तद्वाञ्छा मम सेवने । इन्द्रत्वञ्च मनुत्वञ्च देवत्वञ्च सुदुर्लभम् । स्वर्गराज्यादिभोगांञ्च स्वप्ने च न हि वाञ्छ्रात । ब्रह्माण्डानि विनश्यन्ति देवा ब्रह्मादयस्तथा । कल्याणभक्तियुक्तश्च मद्भक्तो न प्रणश्यति । भ्रमन्ति भारते भक्ता लब्ध्वा जन्म सुदुर्लभम् । तेऽपि यान्ति महीं पूत्वा परं तीर्थं ममालयम्” ब्रह्मवै० प्र० ५ अ० । “रति कृष्ण- कथायाञ्च यस्याश्रु पुलकोद्गमः । मनो निमग्नं यस्यैव स मक्तः कथितो बुधैः । पुत्रदारादिकं सर्वं जानाति श्री- हरेरपि । आत्मना मनसा वाचा स भक्तः कथितो बुधैः । दयास्ति सर्वभूतेषु सर्वं कृष्णमयं जगत् । यो जानाति महाज्ञानी स भक्तो वैष्णवीत्तमः” ब्रह्मवै० जन्म० १ अ० । त्रिविधभक्तलक्षणं यथा “भक्तानां त्रिविधा- नाञ्च लक्षणं श्रूयतामिति । तृणशय्यारतो भक्तो मन्नाम गुणकीर्त्तिषु । मनोनिवेशयेत् त्यक्त्वा संसारसुखकारणम् । दास्यं विना नहीच्छेत्तु सालोक्यादिचतुष्टयम् । नैव निर्वाणमुक्तिञ्च सुधापानमभोप्सितम् । ध्यायते मत्पदा- ब्जञ्च पूजयेद्भक्तिभावतः । श्रीहेतुकास्तस्य देवा सङ्कल्पर- हितस्य च । सर्वसिद्धिं न वाञ्छन्ति तेऽणिमादिकमीपसी- तम् । ब्रह्मत्वममरत्वञ्च सुरत्वं सुखकारणम् । वञ्छन्ति निश्चलां भक्तिं मदीयामतुलामपि । स्त्रीपुंविभेदो ना- स्त्येव सर्वजीवेषु भिन्नता । तेषां सिद्धेश्वराणाञ्च पवराणां ब्रजेश्वर! । क्षुत्पिपासादिकां निद्रां लोभमोहादिकं रिपुम् । त्यक्त्वा दिवानिशं माञ्च ध्यायते च दिगम्बरः । स मद्भक्तोत्तमोनन्द! श्रूयतां मध्यमादिकम् । नासक्तः कर्मसु गृहो पूर्वप्राक्तनतः शुचिः । करोति सततञ्चैव पूर्वकर्मनिकृन्तनम् । न करोत्यपरं यत्नात् सङ्कल्परहि- तश्च सः । सर्वं कृष्णस्य यत्किञ्चिन्नाह कर्त्ता च कर्मणः । कर्मणा मनसा वाचा सततं चिन्तयेदिति । न्यूनभक्तश्च तन्न्यूनः स च प्राकृतिकः स्मृतः । यमं वा यम- दूतं वा स्वप्नेन च न पश्यति । पुरुषाणां सहस्रञ्च पूर्वं भक्तः समुद्वरेत् । पुंसां शतं मध्यमञ्च तच्चतुर्थञ्च प्राकृतः । भक्तश्च त्रिविधस्तात! कथितश्च तवाग्रतः” इति तत्रैव ८४ च० । भावे क्त । ५ भजने न० ।
शब्दकल्पद्रुमः
भक्तं || क्ली (भज्यते स्मेति भजसेवायां + कर्म्मणि क्तः ।)
अन्नम् । इत्यमरः । २ । ९ । ४८ ॥ अथ भक्तस्य नामानि साधनं गुणाश्च । “भक्तमन्नं तथान्धश्च क्वचित् कूरञ्च कीर्त्तितम् । ओदनोऽस्त्री स्त्रियां भिस्सा दीदिविः पुंसि भाषितः ॥” सुधौतांस्तण्डुलान् स्फीतांस्तोये पञ्चगुणे पचेत् । तद्भक्तं प्रसृतञ्चोष्णं विशदं गुणवन्मतम् ॥ भक्तं वह्निकरं पथ्यं तर्पणं रोचनं लघु । अधौतमसृतं शीतं गुर्व्वरुच्यं कफप्रदम् ॥” इति भावप्रकाशः ॥ हरये निवेदितान्नस्य नित्यं भक्षणे फलं यथा, “ये विप्रा हरये दत्त्वा नित्यमन्नञ्च भुञ्जते । उच्छिष्टभोजनात्तेषां हरेर्दास्यं लभेन्नरः ॥” हरये अदत्त्वा तद्भक्षणे दोषो यथा, —
“न दत्त्वा हरये भक्त्या भुञ्जते चेद्भ्रमादपि । पुरीषसदृशं वस्तु जलं मूत्रसमं भवेत् ॥ * ॥
शूद्रश्चेद्धरिभक्तश्च नैवेद्यभोजनोत्सुकः । आमान्नं हरये दत्त्वा पाकं कृत्वा च खादति ॥” अन्नदानफलं यथा, —
“अन्नञ्च सर्व्वजीविभ्यः पुण्यार्थं दातुमर्हति । दत्त्वा विशिष्टजीविभ्यो विशिष्टं फलमाप्नुयात् ॥ अतो दत्त्वा मानुषेभ्यो लभतेऽष्टगुणं फलम् । ततो विशिष्टशूद्रेभ्यो दत्त्वा तद्द्विगुणं फलम् ॥ दत्त्वान्नं घैश्यजातिभ्यस्ततश्चाष्टगुणं फलम् । दत्त्वान्नं क्षत्त्रियेभ्योऽपि वैश्यानां द्विगुणं भवेत् ॥ क्षत्त्रियाणां शतगुणं विप्रेभ्योऽन्नं प्रदाय च । घिप्राणाञ्च शतगुण शास्त्रज्ञे ब्राह्मणे फलम् ॥ शास्त्रज्ञानां शतगुणं भक्ते विप्रे लभेद्ध्रुवम् । स चान्नं हरये दत्त्वा भुङ्क्ते भक्त्या च सादरम् ॥ विष्णवे भक्तविप्राथ दत्त्वा दातुश्च यत् फलम् । तत् फलं लभते नूनं भक्तब्राह्मणभोजने ॥ भक्त तुष्टे हरिस्तुष्टो हरौ तुष्टे च देवताः । भवन्ति सिक्ताः शाखाश्च यथा मूलनिषे- चनात् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २१ अध्यायः । तस्य एकादश्यां पापाश्रयत्वं भक्षणे दोषश्च यथा, —
“एकादश्यामागतायां पावयन्त्यां जगत्त्रयम् । स्थातव्यमन्नमाश्रित्य भवता पापपूरुष ! ॥ अन्नमाश्रित्य तिष्ठन्तं भवन्तं पापपूरुषम् । न हनिष्यति मन्मूर्त्तिरियमेकादशी तिथिः ॥ तस्मादन्नं न भोक्तव्यं कदाचिदपि सत्तमैः । आत्मनो हितमिच्छद्भिः संप्राप्ते हरिवासरे ॥ संसारे यानि पापानि तान्येवैकादशीदिने । अन्नमाश्रित्य तिष्ठन्ति पुण्डरीकेक्षणाज्ञया ॥ कुर्व्वतां सर्व्वपापानि नरकान्निष्कृतिर्भवेत् । न निष्कृतिर्भवेन्नणां भुञ्जतां हरिवासरे ॥ मर्त्या भक्तानि यावन्ति भुञ्जते हरिवासरे । प्रतिभक्ते ब्रह्महत्याकोटिजं पातकं लभेत् ॥ सर्व्वपापाश्रयं भक्तं त्यक्तव्यं हरिवासरे । मोहाद्ये भुञ्जते वापि ते ज्ञेयाः पापिनां वराः ॥” इति पाद्मे क्रियायोगसारे २१ अध्यायः ॥ वर्जनीयान्नं यथा, —
“नाद्यात् शूद्रस्य विप्रोऽन्नं मोहाद्बा यदि- वान्यतः । स शूद्रयोनिं व्रजति यस्तु भुङ्क्ते ह्यनापदि ॥ षण्मासान् यो द्बिजो भुङ्क्ते शूद्रस्यान्नं विग- र्हितम् । जीवन्नेव भवेत् शूद्रो मृतः श्वा चाभिजायते ॥ ब्राह्मणक्षत्त्रियविशां शूद्रस्य च मुनीश्वराः । यस्यान्नेनोदरस्थेन मृतस्तद्योनिमाप्नुयात् ॥ राजान्नं नर्त्तकान्नञ्च तक्षणोऽन्नञ्चक्रकारिणः । गणान्नं गणिकान्नञ्च षण्डान्नञ्चैव वर्जयेत् ॥ चक्रोपजीविरजकतस्करध्वजिनां तथा । गान्धर्व्वलोहकारान्नं सूतकान्नं विवर्जयेत् ॥ कुलालचित्रकर्म्मान्नं वार्द्धुषेः पतितस्य च । पौनर्भवच्छात्रिकयोरभिशस्तस्य चैव हि ॥ सुवर्णकारशैलूषव्याधितस्यातुरस्य च । चिकित्सकस्य चैवान्नं पुंश्चल्या दाण्डिकस्य च ॥ स्तेननास्तिकयोरन्नं देवतानिन्दकस्य च । सोमविक्रयिणश्चान्नं श्वपाकस्य विशेषतः ॥ भार्य्याजितस्य चैवान्नं यस्य चोपपतिर्गृहे । उत्सृष्टस्य कदर्य्यस्य तथैवोच्छिष्टभोजनः ॥ अपङ्क्त्यन्नञ्च संघान्नं शस्त्राजीवस्य चैव हि । क्लीवस्यान्त्यासिनश्चान्नं मत्तोन्मत्तस्य चैव हि ॥ भीतस्य रुदितस्यान्नं अवक्रुष्टं परिक्षतम् । ब्रह्मद्विषः पापरुचेः श्राद्धान्नं सूतकस्य च ॥ वृथापाकस्य चैवान्नं शावान्नं श्वशुरस्य च । अप्रजानान्तु नारीणां कृतघ्नस्य तथैव हि ॥ कन्दुकान्नं विशेषेण शस्त्रविक्रायणस्तथा । शौण्डान्नं नालिकान्नञ्च भिषजामन्नमेव च । विद्धप्रजननस्यान्नं परिवित्त्यन्नमेव च ॥ पुनर्भुवो विशेषेण तथैव दिधिषूपतेः । अवज्ञातञ्चावधूतं सरोषं विस्मयान्वितम् । गुरावपि न भोक्तव्यमन्नं सत्कारवर्जितम् ॥ दुग्कुतं हि मनुष्यस्य सर्व्वमन्नेष्वनुष्ठितम् । यो यस्यान्नेन जीवेत स तस्याश्नाति किल्विषम् ॥” “आभीरः कुलमित्रञ्च गोपालो दासनापितौ । एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत् ॥ कुशीलवः कुम्भकारः क्षेत्रकर्म्मक एव च । एते शूद्रेषु भोज्यान्ना दत्त्वा स्वल्पं पणं बुधैः ॥” इति कौर्म्मे उपविभागे १६ अध्यायः ॥ तस्य मुख्यत्वं पारिभाषिकत्वञ्च यथा, —
“तण्डुलोऽम्ब्वग्निसंयोगाल्लवणयोगेन पिष्टकम् । फलं त्रितयसंयोगादन्नं भवति तत्क्षणात् ॥” इति रामार्च्चनचन्द्रिकाधृतवचनमिति केचित् ॥ (धनम् । यथा, मनौ । ११ । ७ । “यस्य त्रैवार्षिकं भक्तं पर्य्याप्तं भृत्यवृत्तये । अधिकं वापि विद्येत स सोमं पातुमर्हति ॥” “भक्तं धनम् ।” इति तद्भाष्ये मेधातिथिः ।)
शब्दकल्पद्रुमः
भक्तः || त्रि (भजते स्मेति । भजसेवायां + क्तः ।)
तत्परः । इति हेमचन्द्रः ॥ (यथा, महा- भारते । १ । १७३ । १४ । “न त्वां दृष्ट्वा पुनरन्यां द्रष्टुं कल्याणि ! रोचये । प्रसीद वशगोऽहन्ते भक्तं मां भज भाविनि ! ॥” पूज्यविषयकानुरागो भक्तिस्तद्वांश्च ।)
अथ श्रीभगवद्भक्तलक्षणानि । लिङ्गपुराणे । “व्रतकर्म्मगुणज्ञानभोगजन्मादिमत्स्वपि । शैवेष्वपि च कृष्णस्य भक्ताः सन्ति तथा तथा ॥ श्रीभागवते एकादशस्कन्धे । उत्तमभक्ता यथा, “ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश्चास्मि यादृशः । भजन्त्यनेन भावेन ते मे भक्ततमा मताः ॥” मध्यमभक्तो यथा, —
“ईश्वरे तदधीने वा वालिशेषु द्बिषत्सु च । प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥” प्राकृतभक्तो यथा, —
“अर्च्चायामेव हरये पूजां यः श्रद्धयेहते । न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥” इति श्रीहरिभक्तिविलासः ॥ अपि च । “भक्तानां लक्षणं ब्रूहि भक्तानुग्रहकातर ! । येषां स्पर्शनसन्दर्शात् सद्यः पूतो नराधमः ॥ हरिभक्तिविहीनाश्च महाहङ्कारसंयुताः । स्वप्रशंसारता धूर्त्ताः शठाश्च साधुनिन्दकाः ॥ पुनन्ति सर्व्वतीर्थानि येषां स्नानावगाहनात् । येषाञ्च पादरजसा पूता पादोदकान्मही ॥ येषां सन्दर्शनं स्पर्शं देवा वाञ्छन्ति भारते । सर्व्वेषां परमो लाभो वैष्णवानां समागमः ॥ न ह्यग्नयानि तीर्थानि न देवा मृच्छिलामयाः । ते पुनन्त्युरुकालेन विष्णुभक्तः क्षणादहो ! ॥ सौतिरुवाच । महालक्ष्मीवचः श्रुत्वा लक्ष्मीकान्तश्च सस्मितः । निगूढतत्त्वं कथितुमृषिश्रेष्ठोपचक्रमे ॥ श्रीनारायण उवाच । भक्तानां लक्षणं लक्ष्मि ! गूढं श्रुतिपुराणयोः । पुण्यस्वरूपं पापघ्नं सुखदं भक्तिमुक्तिदम् । सारभूतं गोपनीयं न वक्तव्यं खलेषु च ॥ गुरुवक्त्राद्विष्णुमन्त्रो यस्य कर्णे प्रविश्यति । वेदान्तवेदवेदाङ्गास्तं पवित्रं वदन्ति हि ॥ पुरुषाणां शतं प्रूर्ब्बं पूतं तज्जन्ममात्रतः । स्वर्गस्थं नरकस्थं वा मुक्तिमाप्नोति तत्क्षणात् ॥ यैः कैश्चिद्यत्र वा जन्म लब्धं येषु च जन्तुषु । जीवन्मुक्तास्ते च पूता यान्ति काले हरेः पदम् ॥ मद्भक्तियुक्तो मत्पूजानियुक्तो मद्गुणान्वितः । मदगुणश्लाघनीयश्च मन्निविष्टश्च सन्ततम् ॥ सगद्गदः साश्रुनेत्रः स्वात्मविश्रुत एव च । न वाञ्छन्ति सुखं मुक्तिं सालोक्यादिचतुष्टयीम् ॥ ब्रह्मत्वममरत्वं वा तद्वाञ्छा मम सेवने । इन्द्रत्वञ्च मनुत्वञ्च देवत्वञ्च सुदुर्लभम् ॥ स्वर्गराज्यादिभोगञ्च स्वप्ने च नहि वाञ्छति । ब्रह्माण्डानि विनश्यन्ति देवा ब्रह्मादयस्तथा । कल्याणभक्तियुक्तश्च मद्भक्तो न प्रणश्यति । भ्रमन्ति भारते भक्ता लब्ध्वा जन्म सुदुर्लभम् ॥ तेऽपि यान्ति महीं पूत्वा नवं तीथ ममालयम् ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५ अध्यायः ॥ अपि च । “रतिः कृष्णकथयाञ्च यस्याश्रुपुलकोद्गमः । मनो निमग्नं यस्यैव स भक्तः कथिता बुधैः ॥ पुत्त्रदारादिकं सर्व्वं जानाति श्रीहरेरपि । आत्मना मनसा वाचा स भक्तः कथितो बुधैः ॥ दयास्ति सर्व्वभूतेषु सर्व्वं कृष्णमयं जगत् । यो जानाति महाज्ञानी स भक्तो वैष्णवोत्तमः ॥ इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १ अध्यायः ॥ भगवद्भक्ता यथा, तत्रैव ३ अध्याये । मद्भक्ताश्चैव निःशङ्का कर्म्मनिर्मूलकारकाः । नाहं शक्तश्च भक्तानां संहारे नित्यदेहिनाम् ॥ भक्ता ममानुगा नित्यं मत्पादानततत्पराः । अहं भक्तान्तिके नित्यं तेषां रक्षणहेतवे ॥ सर्व्वे नश्यन्ति ब्रह्माण्डे प्रभवन्ति पुनः पुनः । न भे भक्ताः प्रणश्यन्ति निःशङ्काश्च निरापदः ॥ हरिभक्तिमाहात्म्यं यथा, — द्विजानां हरिभक्तानां प्रभावो दुर्लभः श्रुतौ । येषां पादाब्जरजसा सद्यः पूता वसुन्धरा ॥ तेषाञ्च पादचिह्नं यत्तीर्थं तत् परिकीर्त्तितम् । तेषाञ्च स्पर्शमात्रेण तीर्थपापं प्रणश्यति ॥ आलिङ्गनात् सदालापात्तेषामुच्छिष्टभोजनात् । दर्शनात् स्पर्शनाच्चैव सर्व्वपापात् प्रमुच्यते ॥ भ्रमणे सर्व्वतीर्थानां यत् पुण्यं स्रानतो भवेत् । हरिदासस्य विप्रस्य तत् पुण्यं दर्शनाल्लभेत् ॥ इति तत्रैव २१ अध्यायः ॥ त्रिविधभक्तलक्षणं यथा, — भक्तानां त्रिविधानाञ्च लक्षणं श्रूयतामिति । तृणशय्यारतो भक्तो मन्नामगुणकीर्त्तिषु ॥ मनो निवेशयेत्त्यक्त्वा संसारसुखकारणम् । दास्यं विना न हीच्छन्ति सालोक्यादिचतुष्टयम् ॥ नैव निर्व्वाणमुक्तिञ्च सुधापानमभीप्सितम् । ध्यायते मत्पदाब्जञ्च पूजयेद्भक्तिभावतः ॥ श्रीहेतुः किं तस्य देवः सङ्कल्परहितस्य च । सर्व्वसिद्धिं न वाञ्छन्ति तेऽणिमादिकमीप्सितम् ॥ ब्रह्मत्वममरत्वं वा सुरत्वं सुखकारणम् । वाञ्छन्ति निश्चलां भक्तिं मदीयामतुलामपि ॥ स्त्रीपुंविभेदो नास्त्येवं सर्व्वजीवेषु भिन्नता । तेषां सिद्धेश्वराणाञ्च प्रवराणां व्रजेश्वर ! ॥ क्षुत्पिपासादिकां निद्रां लोभमोहादिकं रिपुम् । त्यक्त्वा दिवानिशं माञ्च ध्यायते च दिगम्बरः ॥ स मद्भक्तोत्तमो नन्द ! श्रूयतां मध्यमादिकम् ॥” “नासक्तः कर्म्मसु गृही पूर्ब्बप्राक्तनतः शुचिः ॥ करोति सततञ्चैव पूर्ब्बकर्म्मनिकृन्तनम् । न करोत्यपरं यत्नात् सङ्कल्परहितश्च यः ॥ सर्व्वं कृष्णस्य यत्किञ्चिन्नाहं कर्त्ता च कर्म्मणः । कर्म्मणा मनसा वाचा सततं चिन्तयेदिति ॥ न्यूनभक्तश्च तन्न्यूनः स च प्राकृतिकः श्रूतौ । यमं वा यमदूतं वा स्वप्नेन च न पश्यति ॥ पुरुषाणां सहस्रञ्च पूर्ब्बं भक्तः समुद्धरेत् । पुंसां शतं मध्यमश्च तच्चतुर्थञ्च प्राकृतः ॥ भक्तश्च त्रिविधस्तात ! कथितश्च तवाज्ञया ॥” इति तत्रैव ८४ अध्यायः ॥ कृष्णभक्तशरीरें तीर्थादीनि यथा, —
“पृथिव्यां यानि तीर्थानि पुण्यान्यपि च जाह्नवि ! । मद्भक्तानां शरीरेषु सन्ति पूतेषु सन्ततम् ॥ मद्भक्तपादरजसा सद्यः पूता वसुन्धरा । सद्यः पूतानि तीर्थानि सद्यः पूतं जगत्तथा ॥ मन्मन्त्रोपासका विप्रा ये मदुच्छिष्टभोजिनः । मामेव नित्यं ध्यायन्ते ते मत्प्राणाधिकाः प्रियाः । तदुपस्पर्शमात्रेण पूतो वायुश्च पावकः । कलेर्दशसहस्राणि मद्भक्ताः सन्ति भूतले ॥ एकवर्णा भविष्यन्ति मद्भक्तेषु गतेषु च । मद्भक्तशून्या पृथिवी कलिग्रस्ता भविष्यति ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १२८ अः ॥ भगवद्भक्तमाहात्म्यं यथा, —
“संस्मृतः कीर्त्तितो वापि दृष्टः स्पृष्टोऽपि वा प्रिये ! । पुनाति भगवद्भक्तश्चाण्डालोऽपि यदृच्छया ॥” इति वाराहे उपविभागे प्रबोधिनीमाहा- त्म्यम् ॥ हरिभक्तकर्त्तव्यानि यथा, —
“हरेश्चरितमीशस्य सर्व्वलोकेषु कीर्त्तनम् । वैष्णवेषु च कार्ष्णेषु भक्तः कुर्य्यादहर्निशम् ॥ दासीर्दासांश्च यत्किञ्चित् स्वकीयं वस्तु चात्मनः । कृष्णभक्तस्य गार्हस्थ्यं सर्व्वं कृष्णे निवेदनम् ॥” भक्तस्य लक्षणान्तरं यथा, —
“प्रेम्णा संजातया भक्त्या तनुमुत्पुलकाञ्जनः । विभर्त्त्यलौकिकं भक्तो वदेद्ध्वसति नृत्यति ॥ परमानन्दयुक्तोऽसौ क्वचिद्गायति नन्दति । क्रन्दत्यच्युतभावेन गद्गदेन पुनः पुनः ॥ अनुशीलयति भजेत् गोविन्दमनुमोदते । तरेदेवं विष्णुमायां दुस्तरां मुनिमोहिनीम् ॥ सर्व्वत्रेश्वरबुद्ध्या यो भजेदीशं सनातनम् । स तत्त्ववादी भक्तश्च सर्व्वभूतसुहृत्तमः ॥” इति पाद्मोत्तरखण्डे १०१ अध्यायः ॥ * ॥
भक्तत्यागे दोषो यथा, —
“ब्रह्महत्या गुरोर्घातो गोवधः स्त्रीवधस्तथा । तुल्यमेभिर्महापापं भक्तत्यागादुदाहृतम् ॥ भजन्तं भक्तमत्याज्यमदुष्टं त्यजतः मुखम् । नेह नामुत्र पश्यामि तस्मात् शक्त ! दिवं व्रज ॥” इति मार्कण्डेयपुराणे हरिश्चन्द्रोपाख्यानम् ॥ (कृतविभागः । यथा, लीलावत्याम् । “भक्तो हरः शुध्यति यद्गुणः स्यात् ॥”)