भक्त
भक्तकंस
भक्तकर
वाचस्पत्यम्
भक्तकर || पु० भक्तं भजन करोति कृ—ट । धूपे कृत्रिमधूपे शब्दच० ।
शब्दकल्पद्रुमः
भक्तकरः || पुं, (भक्तं भजनं करोतीति । कृ + टः ।)
कृत्रिमधूपः । यथा, शब्दचन्द्रिकायाम् । “वृकधूपे भक्तकरो गिरिः स्यात् समगन्धकः ॥” भक्तकारके त्रि ॥