वाचस्पत्यम्
भक्तदास || पु० भक्तेन अन्नमात्रकाभेन दासः अङ्गीकृतदास- भावः । पञ्चदशदासान्तर्गते दासभेदे । “भक्तदासश्च विज्ञेयः” इति स्मृतिः । दासशब्दे दृश्यम् ।
शब्दकल्पद्रुमः
भक्तदासः || पुं, (भक्तेनान्नमात्रेण दासः ।)
पञ्च- दशदासान्तर्गतदासविशेषः । यथा, —
“भक्तदासश्च विज्ञेयस्तथैव बडवाकृतः । सुभिक्षेऽपि भक्तेनाङ्गीकृतदास्यः । इति दाय- क्रमसंग्रहः ॥ (यथा, मनौ । ८ । ४१५ । “ध्वजाहृतो भक्तदासो गृहजः क्रीतदत्त्रिमौ । पैत्त्रिको दण्डदासश्च सप्तैते दासयोनयः ॥”)