वाचस्पत्यम्
भक्तमण्ड || पु० ६ त० । भक्तस्य निस्रावे (माँड) । हेमच० ।
शब्दकल्पद्रुमः
भक्तमण्डः || पुं, क्ली, (भक्तस्यान्नस्य मण्डः ।)
अन्नाग्र- रसः । भातेर माड इति भाषा । तत्पर्य्यायः । मासरः २ आचामः ३ निःस्रावः ४ । इत्य- मरः ॥ (भक्तस्य भजनशीलस्य मण्डोभूषणम् ।)
पिच्छा ५ । इति जटाधरः ॥