संस्कृत-शब्दकोशः

भक्षिका भक्षिवस्

भक्षित

शब्दकल्पद्रुमः

भक्षितं || त्रि (भक्ष्यते स्मेति । भक्ष + कर्म्मणि क्तः ।)
कृतभक्षणवस्तु । (यथा, हितोपदेशे । १ । “भक्षितेनापि भवता नाहारो मम पुष्कलः ॥”)
तत्पर्य्यायः । चर्व्वितम् २ लिप्तम् ३ प्रत्यवसितम् ४ गिलितम् ५ खादितम् ६ प्सातम् ७ अभ्यव- हृतम् ८ अन्नम् ९ जग्धम् १० ग्रस्तम् ११ ग्लस्तम् १२ अशितम् १३ भुक्तम् १४ । इत्यमरः । ३ । २ । ११० ॥ जक्षितम् १५ । इति शब्दरत्नावली ॥



Correction: