शब्दकल्पद्रुमः
भक्ष्याभक्ष्यं || क्ली (भक्ष्यमभक्ष्यञ्च ।)
खाद्याखाद्य- द्रव्यम् । यथा, —
“भक्ष्याभक्ष्याण्यनेकानि ब्राह्मणस्य विशेषतः । अत्र शिष्टा यथा ब्रूयुस्तथा कार्य्यविनिर्णयः ॥” इत्येकादशीतत्त्वे शङ्खवचनम् ॥ * ॥
नारद उवाच । “भक्ष्यं किंवाप्यभक्ष्यञ्च द्बिजानां गृहिणां प्रभो ! । यतीनां वैष्णवानाञ्च विधवाब्रह्मचारिणाम् ॥ किं कर्त्तव्यमकर्त्तव्यमभोग्यं भोग्यमेव च । सर्व्वं कथय सर्व्वज्ञ ! सर्व्वेश ! सर्व्वकारण ! ॥” श्रीमहेश्वर उवाच । “कश्चित्तपस्वी विप्रश्च निराहारी चिरं मुनिः कश्चित् समीरणाहारी फलाहारी च कश्चन ॥ अन्नाहारी यथा लोके गृही च गृहिणीयुतः । येषामिच्छा च या ब्रह्मन् ! रुचीनां विविधा गतिः ॥ हविष्यान्नं ब्राह्मणानां प्रशस्तं गृहिणां सदा । नारायणोच्छिष्टमिष्टमनिवेद्यमभक्ष्यकम् ॥ अन्नं विष्ठा जलं मूत्रं यद्विष्णोरनिवेदनम् । विण्मूत्रं सर्व्वपापोक्तमन्नञ्च हरिवासरे ॥ ब्राह्मणः कामतोऽन्नञ्च यो भुङ्क्ते हरिवासरे । त्रैलोक्यजनितं पापं सोऽपि भुङ्क्ते न संशयः ॥ न भोक्तव्यं न भोक्तव्यं न भोक्तव्यञ्च नारद ! । गृहिभिर्ब्राह्मणैरन्नं संप्राप्ते हरिवासरे ॥ गृही शैवश्च शाक्तश्च ब्राह्मणो ज्ञानदुर्बलः । प्रयाति कालसूत्रञ्च भुक्त्वा च हरिवासरे ॥ क्रमिभिः शालमानैश्च भक्षितस्तत्र तिष्ठति । विण्मूत्रभक्षणं कृत्वा यावदिन्द्राश्चतुर्द्दश ॥ जन्माष्टमीदिने रामनवमीदिवसे हरेः । शिवरात्रौ च यो भुङ्क्ते सोऽपि द्बिगुणपातकी ॥ उपवासासमर्थश्चेत् फलमूलजलं पिबेत् । नष्टे शरीरे स भवेदन्यथा चात्मघातकः ॥ सकृद्भुङ्क्ते हविष्यान्नं विष्णोर्नैवेद्यमेव च । न भवेत् प्रत्यवायी स चोपवासफलं लभेत् ॥ एकादश्यामनाहारी गृही विप्राश्च भारत ! । ते च तिष्ठन्ति वैकुण्ठे यावद्वै ब्रह्मणो वयः ॥ गृहिणां शैवशाक्तानामिदमुक्तञ्च नारद ! । विशेषतो वैष्णवानां यतीनां ब्रह्मचारिणाम् ॥ नित्यं नैवेद्यभोजी च श्रीकृष्णस्य च वैष्णवः । नित्यं शतोपवासानां जीवन्मुक्तो लभेत् फलम् ॥ वाञ्छन्ति तस्य संस्पर्शं तीर्थानि सर्व्वदेवताः । आलापं दर्शनञ्चैव सर्व्वपापप्रणाशनम् ॥ द्विस्विन्नमन्नं पृथुकं शुद्धं देशविशेषके । नात्यन्तशस्तं विप्राणां भक्षणे च निवेदने ॥ अभक्ष्यञ्च यतीनाञ्च विधवाब्रह्मचारिणाम् । ताम्बूलञ्च यथा ब्रह्मन् ! तथैते वस्तुनी ध्रुवम् ॥ ताम्बूलं विधवास्त्रीणां यतीनां ब्रह्मचारिणाम् । तपस्विनाञ्च विप्रेन्द्र ! गोमांससदृशं ध्रुवम् ॥ सर्व्वेषां ब्राह्मणानाञ्च अभक्ष्यं शृणु नारद ! । यदुक्तं सामवेदे च हरिणा चाह्निकक्रमे ॥ ताम्रपात्रे पयःपानं उच्छिष्टे घृतभोजनम् । दुग्धं लवणसार्द्धञ्च सद्यो गोमांसभक्षणम् ॥ नारिकेलोदकं कांस्ये ताम्रपात्रे स्थितं मधु । ऐक्षवं ताम्रपात्रस्थं मुरातुल्यं न संशयः ॥ उत्थाय वामहस्तेन यत्तोयं पिबति द्विजः ॥ सुरापीती स विज्ञेयः सर्व्वधर्म्मबहिष्कृतः ॥ अनिवेद्यं हरेरन्नं भक्ष्यशेषञ्च नित्यशः । पीतशेषं जलञ्चैव गोमांससदृशं मुने ! ॥ वातिङ्गनफलञ्चैव गोमांसं कार्त्तिके स्मृतम् । माघे च मूलकञ्चैव कलम्बी शयने तथा ॥ श्वेतवर्णञ्च तालञ्च मसूरं मत्स्य एव च । सर्व्वेषां ब्राह्मणानाञ्च त्याज्यञ्च सर्व्वदेशतः ॥ मत्स्यांश्च कामतो भुक्त्वा चोपवासं त्र्यहं वसेत् । प्रायश्चित्तं ततः कृत्वा शुद्धिमाप्नोति ब्राह्मणः ॥ प्रतिपत्सु च कुष्माण्डमभक्ष्यमर्थनाशनम् । द्वितीयायाञ्च वृहतीभोजको न स्मरेद्धरिम् ॥ अभक्ष्यञ्च पटोलञ्च शत्त्रुवृद्धिकरं परम् । तृतीयायाञ्चतुर्थ्याञ्च मूलकं धननाशकम् ॥ कलङ्ककारणञ्चैव पञ्चम्यां विल्वभक्षणम् । तिर्य्यग्योनिं प्रापयेत्तु षष्ठ्याञ्च निम्बभक्षणम् ॥ रोगवृद्धिकरञ्चैव सप्तम्यां तालभक्षणम् । नारिकेलफलं भक्ष्यमवृन्यां बुद्धिनाशनम् ॥ तुम्बी नवम्यां गोमांसं दशम्याञ्च कलम्बिका । एकादश्यां तथा शिम्बी द्वादश्यां पूतिका तथा ॥ त्रयोदश्यान्तु वार्त्ताकीभक्षणं पुत्त्रनाशनम् । चतुर्द्दश्यां माषभक्षं महापापकरं परम् ॥ पञ्चदश्यां तथा मांसमभक्ष्यं गृहिणां मुने ! । गृहिणां प्रोक्षितं मांसं भक्ष्यमन्यदिने दिने ॥ मांसञ्च रक्तशाकञ्च कांस्यपात्रे च भोजनम् । निषिद्धं शयने चैव कूर्म्ममांसञ्च प्रोक्षितम् ॥ रात्रौ च दधिभक्तञ्च शयनं सन्ध्ययोर्दिने । रजस्वलावीरान्नञ्च पुंश्चलीनामभक्ष्यकम् ॥ शूद्राणां याजकानाञ्च शूद्रश्राद्धान्नमेव च । अभक्षाणाञ्च विप्रर्षे ! यदन्नं वृषलीपतेः ॥ ब्रह्मन् ! वार्द्धुषिकान्नञ्च गणकानामभक्ष्यकम् ॥ अग्रदानीद्बिजानाञ्च चिकित्साकारकस्य च । हस्ताचित्राहरौ तैलमग्राह्यञ्चाप्यभक्ष्यकम् । मूले मृगे भाद्रपदे मांसं गोमांसतुल्यकम् ॥” इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे २७ अध्यायः पाद्मे स्वर्गखण्डे ३१ अध्यायश्च ॥ नारद उवाच । “वर्णानाञ्च चतुर्णाञ्च भक्ष्याभक्ष्यञ्च सांप्रतम् । विपाकं कर्म्मणाञ्चैव सर्व्वेषां प्राणिनामपि ॥ कथयस्व महाभाग ! कारणानाञ्च कारण ! । त्वत्तोऽन्यं कञ्च पृच्छामि नितान्तं सन्त- मीश्वर ! ॥ श्रीभगवानुवाच । भक्ष्याभक्ष्यं चतुर्णाञ्च वर्णानाञ्च यथोचितम् । वेदोक्तं श्रूयतां तात ! सावधानं निशामय ॥ अयःपात्रे पयःपानं गव्यं सिद्धान्नमेव च । भृष्टादिकं मधु गुडं नारिकेलोदकं तथा ॥ फलं मूलञ्च यत्किञ्चिदभक्ष्यं मनुरब्रवीत् । दग्धान्नं तप्तसौवीरमभक्ष्यं ब्रह्मणा मतम् ॥ नारिकेलोदकं कांस्ये ताम्रपात्रे स्थितं मधु । गव्यञ्च ताम्रपात्रस्थं सर्व्वं मद्यं घृतं विना ॥ ताम्रपात्रे पयःपानमुच्छिष्टे घृतभोजनम् । दुग्धं सलवणञ्चैव सद्यो गोमांसभक्षणम् ॥ अभक्ष्यं मधुमिश्रञ्च घृतं तैलं गुडं तथा । आर्द्रकं गुडसंयुक्तमभक्ष्यं श्रुतिसम्मतम् ॥ पीतशेषं जलञ्चैव माघे च मूलकं तथा । द्बिर्भोजनञ्च दिवसे सन्ध्ययोर्भोजनं तथा ॥ भक्ष्यञ्च रात्रिशेषे च ध्रुवं प्राज्ञः परित्यजेत् । पानीयं पायसं चूर्णं घृतं लवणमेव च ॥ स्वस्तिकं लवणञ्चैव क्षीरं तक्रं तथा मधु । हस्ताद्धस्तगृहीतञ्च सद्यो गोमांसभक्षणम् ॥ कर्पूरं रौप्यपात्रस्थमभक्ष्यं श्रुतिसम्मतम् । परिवेशनकारी चेद्भोक्तारं स्पृशते यदि ॥ अभक्ष्यञ्च तदन्नञ्च सर्व्वेषामेव सम्मतम् । नकुलानां गण्डकानां महिषाणाञ्च पक्षिणाम् ॥ सर्पाणां शूकराणाञ्च गर्द्दभानां विशेषतः । मार्जाराणां शृगालानां कुक्कुराणां ब्रजेश्वर ! ॥ व्याघ्राणामपि सिंहानां त्याज्यं मांसं नृणां सदा । जलौकसाञ्च नक्राणां गोधिकानां तथैव च ॥ मण्डूकानां कर्क्कटीनां चञ्चुकानाञ्च निश्चितम् । गवाञ्च चमरीणाञ्च कलौ मांसमभक्ष्यकम् ॥ हस्तिनां घोटकानाञ्च नृणामेव च रक्षसाम् । दंशश्च मशकश्चैव मक्षिका च पिपीलिका ॥ अन्येषाञ्च निषिद्धानां लोके वेदे ब्रजेश्वर ! । वानराणां भल्लूकानां शरभाणां तथैव च ॥ निषिद्धं मृगनाभीनां गर्द्दभानाञ्च मांसकम् । अभक्ष्यं महिषाणाञ्च दुग्धं दधि घृतं तथा ॥ स्वस्तिकञ्च तथा चक्रं विप्राणां नवनीतकम् । मांसमुच्चैःश्रवसकं तस्य दुग्धादिकं तथा ॥ वर्णानाञ्च चतर्णाञ्चाप्यभक्ष्यञ्च श्रुतौ श्रुतम् । अभक्ष्यमार्द्रकञ्चैव सर्व्वेषाञ्च रवेर्दिने ॥ पर्य्युषितं जलञ्चान्नं विप्राणां दुग्धमेव च । वर्णानाञ्च चतुर्णाञ्चावीरान्नस्य च भक्षणम् ॥ तदन्नञ्च सुरातुल्यं गोमांसाधिकमेव च । अवीरान्नञ्च यो भुङ्क्ते ब्राह्मणो ज्ञानदुर्ब्बलः । पितृदेवार्च्चनं तस्य निष्फलं मनुरब्रवीत् ॥ ब्राह्मणानां वैष्णवानामभक्ष्यं मत्स्यमेव च । इतरेषामभक्ष्यञ्च पञ्चपर्व्वसु निश्चितम् ॥ पितृदेवावशेषे च भक्ष्यं मासं न दूषितम् । पञ्चपर्व्वसु त्याज्यञ्च सर्व्वेषां मनुरब्रवीत् ॥ असंस्कृतञ्च लवणं तैलञ्चाभक्ष्यमेव च । भक्ष्यं पवित्रं सर्व्वेषां व्यञ्जने वह्रिसंस्कृतम् ॥ एकहस्ते घृतं तोयमभक्ष्यं सर्व्वसम्मतम् । आविलं कृमियुक्तञ्चापरिशुद्धन्त्वनिर्म्मलम् ॥ अभक्ष्यं ब्राह्मणानाञ्च वैष्णवानां विशेषतः । अनिवेद्यं हरेरेव यतीनां ब्रह्मचारिणाम् ॥ पिपीलिकामिश्रितञ्च मधु गव्यं गुडं तथा । यत्किञ्चिद्वस्तु वा तात ! न भक्ष्यञ्च श्रुतौ श्रुतम् ॥ पक्षिभक्ष्यं कीटभक्ष्यं शुद्धं पक्वफलन्तथा । काकभक्ष्यमभक्ष्यञ्च सर्व्वेषां द्रव्यमेव च ॥ घृतपक्वं तैलपक्वं मिष्टान्नं शूद्रसंस्कृतम् । अभक्ष्यं ब्राह्मणानाञ्च शूद्रभृष्टं चिपीटकम् ॥ सर्व्वेषामशुचीनाञ्च जलमन्नं परित्यजेत् । अशौचान्तात् परदिने शुद्धमेव न संशयः ॥ विपाकः कर्म्मणामेव दुष्करः श्रुतिसम्मतम् । भक्ष्याभक्ष्यञ्च कथितं यथाज्ञानं व्रजेश्वर ! ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्ण जन्मखण्डे ८५ अध्यायः ॥ “भक्ष्याभक्ष्यञ्च ते शिष्य ! वेदितव्यं तदन्तरे । करीरस्य वधः शस्तः फलान्यौदुम्बरस्य च ॥ सद्यो भक्षी भवेत्तेन अभक्ष्या पूतिवासिका । न भक्षणीयं वाराहं मांसं मत्स्यश्च सर्व्वशः ॥ अभक्ष्या ब्राह्मणैर्ह्येतैर्दीक्षितैर्हि न संशयः ॥” इति वाराहे ब्राह्मणदीक्षासूत्रनामाध्यायः ॥