वाचस्पत्यम्
भगदैवत || न० भगो योनिः दैवतं यस्य । पूर्वफल्गुनीनक्षत्रे तस्या योनिदेवताकत्वात् तथात्वम् । अश्लेषाशब्दे दृश्यम् । तच्च वृहस्पतिजन्मनक्षत्रं यथोक्तं ज्यो० त० “विशाखा- नल ३ तोयानि २४ वैष्णवं २२ भगदवतम् ११ । पुष्या पौष्णो २७ यमः २ सर्पो ९ जन्मभान्यर्कतः क्रमात्” ।
शब्दकल्पद्रुमः
भगदैवतं || क्ली (भगो योनिदवतं देवता यस्य ।)
पूर्ब्बफल्गुनीनक्षत्रम् । तत्तु बृहस्पतेर्जन्मनक्ष- त्रम् । यथा, ज्योतिस्तत्त्वे । “विशाखानलतोयानि वैष्णव्यं भगदैवतम् । पुष्या पौष्णो यमः सर्पो जन्मभान्यर्कतः क्रमात् ॥”