संस्कृत-शब्दकोशः

भगभक्त भगल

भगभक्षक

वाचस्पत्यम्

भगभक्षक ||‍ पु० भगेन तद्व्यापारोपपादनेन भक्षति भक्ष—ण्वुल् । (कोटना) ख्याते नायकयोर्मेलके ।


शब्दकल्पद्रुमः

भगभक्षकः || पुं, (भगं योनिस्तामुपाश्रित्य भक्षयति जीविकां निर्व्वाहयतीति । भक्ष + ण्वुल् ।)
कुण्डाशी । इति महाभारते दानधर्म्मः ॥ कोट्ना इति भाषा ॥ तस्यान्नभक्षणनिषेधो यथा, —
“यो बान्धवैः परित्यक्तः साधुभिर्ब्राह्मणैरपि । कुण्डाशी यश्च तस्यान्नं भुक्त्वा चान्द्रायणञ्चरेत् ॥” इति मार्कण्डेयपुराणे सदाचाराध्यायः ॥



Correction: