संस्कृत-शब्दकोशः

भगवद्दृश्य भगशास्त्र

भगवद्भक्त

शब्दकल्पद्रुमः

भगवद्भक्तः || पुं, (भगवतो भगवत्या वा भक्तः ।)
श्रीकृष्णभक्तियुक्तः ॥ अथ भगवद्भक्तानां लक्ष- णानि । सामान्यतः लैङ्गे । “विष्णुरेव हि यस्यैष देवता वैष्णवः स्मृतः ॥” अत्र विशेषः । “व्रतकर्म्मशुभज्ञानभोगजन्मादिमत्स्वपि । शैवेष्वपि च कृष्णस्य भक्ताः सन्ति तथा तथा ॥” तत्र व्रतिषु मध्ये भगवद्भक्तिहेतुव्रतपरता भग- वद्भक्तलक्षणम् । तथा च स्कान्दे श्रीमार्कण्डेय- भगीरथसंवादे । “दशमीशेषसंयुक्तं दिनं वैष्णववल्लभम् । ह्युपास्यते महीपाल ! ते वै भागवता नराः ॥ प्राणात्यये न चाश्नन्ति दिनं प्राप्यं हरेर्नराः । कुर्व्वन्ति जागरं रात्रौ सदा भागवता हि ते ॥ उपोष्य द्वादशीं शुद्धां रात्रौ जागरणान्विताम् । अल्पान्तु साधयेद्यस्तु स वै भागवतो नरः ॥ भक्तिर्न विच्युता येषां न च्युतानि व्रतानि च । सुप्रियः श्रीपतिर्येषां ते स्युर्भागवता नराः ॥” कर्म्मिषु भगवदर्पणादिना तदाज्ञाबुद्ध्या वा भक्तिहेतुसदाचारपरता तत्रैव । “धर्म्मार्थं जीवितं येषां सन्तानार्थञ्च मैथुनम् । पचनं विप्रमुख्यार्थं ज्ञेयास्ते वैष्णवा नराः ॥ अध्वगन्तु पथि श्रान्तं कालेऽत्र गृहमागतम् । योऽतिथिं पूजयेद्भक्त्या वैष्णवः स न संशयः ॥ सदाचाररताः शिष्टाः सर्व्वभूतानुकम्पकाः । शुचयस्त्यक्तरागा ये सदा भागवता हि ते ॥” पाद्मे वैशाखमाहात्म्ये श्रीनारदाम्बरीषसं वादे । यथा, —
“जीवितं यस्य धर्म्मार्थे धर्म्मो हर्य्यर्थमेव च । अहोरात्राणि पुण्यार्थे तं मन्ये वैष्णवं जनम् ॥” लैङ्गे च । “विष्णुभक्तिसमायुक्तान् श्रौतस्मार्त्तप्रवर्त्तकान् । प्रीतो भवति यो दृष्ट्वा वैष्णवोऽसौ प्रकीर्त्तितः ॥” गुणवत्सु भक्तिहेतुकृपालुत्वादिसद्गुणशीलता तत्रैव । “परदुःखेनात्मदुःखं मन्यन्ते ये नृपोत्तम ! । भगवद्धर्म्मनिरतास्ते नरा वैष्णवा नृप ! ॥” भागवततृतीयस्कन्धे श्रीकपिलदेवहूतिसंवादे । यथा, —
“तितिक्षवः कारुणिकाः सुहृदः सर्व्वदेहिनाम् । अजातशत्रवः शान्ताः साधवः साधुभूषणाः ॥” पञ्चमस्कन्धे ऋषभदेवस्य पुत्त्रानुशासने । यथा, “महत्सेवां द्वारमाहुर्विमुक्ते- स्तमोद्वारं योषितां सङ्गिसङ्गम् । महान्तस्ते समचित्ताः प्रशान्ता विमन्यवः सुहृदः साधवो ये ॥” एकादशस्कन्धे श्रीभगवत्प्रदत्तोद्धवप्रश्नोत्तरे । यथा, —
“कृपलुरक्त्वतद्रोहस्तितिक्षुः सर्व्वदेहिनाम् । सत्यसारोऽनवद्यात्मा समः सर्व्वोपकारकः ॥ कामाक्षुभितधीर्दान्तो मृदुः शुचिरकिञ्चनः । अनीहो मितभुक् शान्तः स्थिरो मच्छरणो मुनिः ॥ अप्रमत्तो गभीरात्मा धृतिमान् जितषड्गुणः । अमानी मानदः कल्यो मैत्रः कारुणिकः कविः ॥” विष्णुपुराणे यमतद्भटसंवादे । यथा, —
“न चलति निजवर्णधर्म्मतो यः सममतिरात्मसुहृद्विपक्षपक्षे । न हरति न चलति किञ्चिदुच्चैः स्थिरमनसं तमवेहि विष्णुभक्तम् ॥” * ॥
ज्ञानिषु भक्तिहेतुज्ञानवत्ता एकादशे । यथा, —
“सर्व्वभूतेषु यः पश्येद्भगवद्भावमात्मनः । भूतानि भगवत्यात्मन्येष भागवतोत्तमः ॥ न यस्य स्वः पर इति वित्तेष्वात्मनि वा भिदा । सर्व्वभूतसमः शान्तः स वै भागवतोत्तमः ॥ ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश्चास्मि यादृशः । भजन्त्यनन्यभावेन ते मे भक्ततमा मताः ॥ ईश्वरे त्रदधीनेषु वालिशेषु द्विषत्सु च । प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥ अर्च्चायामेव हरये पूजां यः श्रद्धयेहते । ग तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥” भोगवत्सु भक्तिहेतुभोगानासक्तता हरियोगे- श्वरोचरे । यथा, —
“गृहीत्वापीन्द्रियैरर्थान् यो न द्वेष्टि न काङ्क्षति । विष्णोर्मायामिदं पश्यन् स वै भागवतोत्तमः ॥” सज्जमविद्यादिमत्सु भक्तिहेतुनिरभिमानिता तत्रैव । यथा, —
“न यस्य जन्मकर्म्मभ्यां न वर्णाश्रमजातिभिः । सज्जतेऽस्मिन्नहंभावो देहे वै स हरेः प्रियः ॥ भावाः कथञ्चिद्भक्त्यैव ज्ञानानासक्त्यमानिता । भक्तिनिष्ठापका जातास्ततो ह्युत्तमतोदिता ॥” निष्ठापकाः परिपाकं प्रापकाः ॥ * ॥
शैवषु श्रीशिवकृष्णाभेदकता बृहन्नारदीये । “शिवे च परमेशाने विष्णौ च परमात्मनि । समबुद्ध्या प्रवर्त्तन्ते ते वै भागवतोत्तमाः ॥” इति ॥ * ॥
“अन्यच्च तेषां भगवच्छास्त्रार्थपरतादिकम् । साक्षाद्भक्त्यात्मकं मुख्यं लक्षणं लिख्यतेऽधुना ॥” श्रीभागवतशास्त्रपरता स्कान्दे । “येषां भागवतं शास्त्रं सदा तिष्ठति सन्निधौ । पूजयन्ति च ये नित्यं ते स्युर्भागवता नराः ॥ येषां भागवतं शास्त्रं जीवितादधिकं भवेत् । महाभागवताः श्रेष्ठा विष्णुना कथिता नराः ॥” वैष्णवसम्माननिष्ठा लैङ्गे । “विष्णुभक्तमथायातं यो दृष्ट्वा सुमुखप्रियः । प्रणामादि करोत्येव वासुदेवे यथा तथा । स वै भक्त इति ज्ञेयः स पुनाति जगत्त्रयम् ॥ रूक्षाक्षरा गिरः शृण्वन् तथा भागवतेरिताः । प्रणामपूर्व्वं क्षन्त्वा यो वदेद्वै वैष्णवो हि सः ॥ भोजनाच्छादनं सर्व्वं यथाशक्त्या ददाति यः । विष्णुभक्तस्य सततं स वै भागवतः स्मृतः ॥ गारुडे । “येन सर्व्वात्मना विष्णुभक्त्या भावो निवेशितः । वैष्णवेषु कृतात्मत्वान्महाभागवतो हि सः ॥ * ॥
श्रीतुलसीसेवानिष्ठा बृहन्नारदीये श्रीभगवन् माकण्डेयसंवादे । “तुलसीकाननं दृष्ट्वा ये नमस्कुर्व्वते नराः । तत्काष्ठाङ्कितकर्णा ये ते वै भागवतोत्तमाः ॥ तुलसीगन्धमाघ्राय सन्तोषं कुर्व्वते तु ये । तन्मूलमुद्धृतं यैश्च ते वै भागवतोत्तमाः ॥” * ॥
श्रीभगवतः कथापरता बृहन्नारदीये श्रीभगवन्- मार्कण्डेयसंवादे । “मत्कथाश्रवणे येषां वर्त्तते सात्त्विकी मतिः । तद्वक्तरि सुभक्ताश्च ते वै भागवतोत्तमाः ॥” स्कान्दे श्रीभगवदर्ज्जुनसंवादे । “मत्कथां कुरुते यस्तु मत्कथाञ्च शृणोति यः । हृष्यते मत्कथायाञ्च स वै भागवतोत्तमः ॥” तृतीयस्कन्धे तत्रैव । “मदाश्रयाः कथा मृष्टाः शृण्वन्ति कथयन्ति च । तपन्ति विविधास्तापा नैतान्मद्गतचेतसः ॥” * ॥
नामपरता बृहन्नारदीये तत्रैव । मल्मानसाश्च मद्भक्ता मद्भक्तजनलोलुपाः । मन्नामश्रवणासक्तास्ते वै भागवतोत्तमाः ॥ येऽभिनन्दन्ति नामानि हरेः शृण्वन्ति हर्षिताः । रोमाञ्चितशरीराश्च ते वै भागवतोत्तमाः ॥” तत्रैवान्यत्र । “अन्येषामुदयं दृष्ट्वा येऽभिनन्दन्ति मानवाः । हरिनामपरा ये च ते वै भागवतोत्तमाः ॥” स्मरणपरता । तत्र स्वधर्म्मनिष्ठया रागद्वेषादि- निवृत्त्या स्मरणं श्रीविष्णुपुराणे यमतद्भटसंवादे । “न चलति उच्चैः श्रीभगवत्पदार- विन्दे सितमनास्तमवेहि विष्णुभक्तम् । कलिकलुषमलेन यस्य नात्मा विमलमतेर्मलिनीकृतस्तमेनम् । मनसि कृतजनार्द्दनं मनुष्यं सततमवेहि हरेरतीव भक्तम् ॥ कनकमपि रहस्यवेक्ष्य बुद्ध्या तृणमिव यः समवैति वै परस्वम् । भवति च भगवत्यनन्यचेताः पुरुषवरं तमवेहि विष्णुभक्तम् ॥ स्फटिकगिरिशिलामलः क्व विष्णु- र्मनसि नृणां क्व च मत्सरादिदोषः । न हि तुहिनमयूखरश्मिपुञ्जे भवति हुताशनदीप्तिजः प्रतापः ॥ विमलमतिरमत्सरः प्रशान्तः शुचि- चरितोऽखिलसत्त्वमित्रभूतः । प्रियहितवचनोऽस्तमानमायो वसति सदा हृदि तस्य वासुदेवः ॥ वसति हृदि सनातने च तस्मिन् भवति पुमान् जगतोऽस्य सौन्यरूपः । क्षितिरसमतिरम्यमात्मनोऽन्तः कथयति चारुतयैव शालपोतः ॥ अन्यविजयेन वैराग्यादिना च स्मरणं श्रीहरि- योगेश्वरोत्तरे । देहेन्द्रियप्राणमनोधियां यो जन्माप्ययक्षुद्भयतर्षकृच्छ्रैः । संसारधर्म्मैरविमुह्यमानः स्मृत्या हरेर्भागवतप्रधानः ॥ त्रिभुवनविभवहेतवेऽप्यकुण्ठ- स्मृतिरजितात्मसुरादिभिर्विमृग्यात् । न चलति भगवत्पदारविन्दा- ल्लवनिमिषार्द्धमपि स वैष्णवाग्र्यः ॥ भगवत उरुविक्रमाङ्घ्रिशाखा- नखमणिचन्द्रिकया निरस्ततापे । हृदि कथमुपसीदतां पुनः स प्रभवति चन्द्रे इवोदितेऽर्कतापः ॥” पूजापरता स्कान्दे तत्रैव । “येऽर्च्चयन्ति सदा विष्णुं यज्ञेशं वरदं हरिम् । देहिनः पुण्यकर्म्माणः सदा भागवता हि ते ॥” लैङ्गे । “विष्णुक्षेत्रे शुभान्येव करोति स्नेहसंयुतः । प्रतिमाञ्च हरेर्नित्यं पूजयेत् प्रयतात्मवान् ॥ विष्णुभक्तः स विज्ञेयः कर्म्मणा मनसा गिरा । नारायणपरो नित्यं भूप ! भागवतो हि सः ॥” वैष्णवधर्म्मनिष्ठतादि पाद्मोत्तरखण्डे । “तापादिपञ्चसंस्कारी नवेज्याकर्म्मकारकः । अर्थपञ्चकविद्विप्रो महाभागवतो हि सः ॥” तापः तप्तमुद्राधारणं तदादिपच्चसंस्कारयुक्तः । पञ्चसंस्काराश्च तत्रैवक्ताः । “तापः पुण्डस्तथा नाम मन्त्रो यागस्तु पश्चमः ॥” इति ॥ अस्यार्थः । नाम श्रीकृष्णदासेत्यादि । मन्त्रः श्रीगुरोः सकाशात् मन्त्रग्रहणम् । यागः होम- पूर्ब्बकय थाविधिदीक्षाग्रहणमित्यर्थः । नव इज्या- कर्म्माणि पूजासम्बन्धिकृत्यानि श्रवणादीनि पाद्मोक्तार्च्चनादीनि वा सर्व्वेषां तेषां पूजाङ्ग- त्वात् । तानि च तत्रैवोक्तानि । यथा, —
“अर्च्चनं मन्त्रपठनं यागयोगौ महात्मनः । नामसङ्कीर्त्तनं सेवा तच्चिह्रैरङ्कनं तथा । तदीयाराधनं चर्य्या नवधा भिद्यते शुभे ! ॥” अर्थपञ्चकं चत्वारो चत्वारो धर्म्मादयः पुरु- षार्थाः पञ्चमपुरुषार्थश्च भक्तिः । यद्वा पञ्च- तत्त्वानि अनात्मात्मपरमात्मपरमेश्वरतद्भक्तानां याथार्थ्यानि । इति तट्टीका ॥ * ॥
एकान्तिता गारुडे । “एकान्तेन सदा विष्णौ यस्माद्देवे परायणाः । तस्मादेकान्तिनः प्रोक्तास्तद्भागवतचेतसः ॥” तद्विज्ञानेनानन्यपरता एकादशे उद्धवप्रश्नोत्तरे । “ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश्चास्मि यादृशः । भजन्त्यनन्यभावेन ते वै भागवता मताः ॥” भागवते । ११ । ३ । ५० । “न कामकर्म्मबीजानां यस्य चेतसि सम्भवः । वासुदेवैकनिलयः स वै भागवतोत्तमः ॥” सा च एकान्तिता चतुर्द्धा । तत्र धर्म्मानाद- रेण श्रीमदुद्धवप्रश्नोत्तर एव । “अज्ञायैवं गुणान् दोषान् मयादिष्ठानपि स्वकान् । धर्म्मान् सन्त्यज्य यः सर्व्वान् मां भजेत् स च सत्तमः ॥ गीतायाञ्च । सर्व्वधर्म्मान् परित्यज्य मामेकं शरणं व्रज । अहं त्वां सर्व्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ यदा यस्यानुगृह्णाति भगवानात्मभावितः । स जहाति मतिं लोके वेदे च परिनिष्ठताम् ॥” अन्यसर्व्वनिरपेक्षता भागवते श्रीमद्भगवदुद्धव- संवादे ऐलोपाख्याने । “सन्तोऽनपेक्षा मच्चित्ताः प्रशान्ताः समदर्शिनः । निर्म्ममा निरहङ्कारा निर्द्द्वन्द्वा निष्परिग्रहाः ॥” तत्रैव तृतीये श्रीकपिलदेवहूतिसंवादे । “त एते साधवः साध्वि ! सर्व्वसङ्गविवर्ज्जिताः । सङ्गस्तेष्वथ ते प्रार्थ्यः सङ्गदोषहरा हि ते ॥” विघ्नाकुलत्वेऽपि मनोरतिपरता स्कान्दे । “यस्य कृच्छ्रगतस्यापि केशवे रमते मनः । न विच्युता च भक्तिर्वै स वै भागवतो नरः ॥ आपद्गतस्य यस्येह भक्तिरव्यभिचारिणी । नान्यत्र रमते चित्तं स वै भागवतो नरः ॥” प्रेमैकपरता च भागवते पञ्चमस्कन्धे श्रीऋषभ- देवस्य पुत्त्रानुशासने । “ये वा मयीश कृतसौहृदार्था जनेषु देहम्मरवार्त्तिकेषु । गृहेषु जायात्मजरातिमत्सु न प्रीतियुक्ता यावदर्याश्च लोके ॥” राति मित्रं धनं वा । “त्रिधा प्रेमैकपरता प्रेम्नः स्यात्तारतम्यतः । उत्तमा मध्यमा चासौ कनिष्ठा चेति भेदतः ॥” तत्रोत्तमा यथा एकादशे हरियोगेश्वरोत्तरे । “सर्व्वभूतेषु यः पश्येद्भगवद्भावमात्मनः । भूतानि भगवत्यात्मन्येष भागवतोत्तमः ॥ स्वेष्टदेवस्य भावं यः सर्व्वभूतेषु पश्यति । भावयन्ति च तान्यस्मिन्नित्यर्थः सम्मतः सताम् ॥” तृतीये श्रीकपिलदेवहूतिसंवादे । “मय्यनन्येन भावेन भक्तिं कुर्व्वन्ति ये दृढाम् । मत्कृते त्यक्तकर्म्माणस्त्यक्तस्वजनबान्धवाः ॥” एकादशे श्रीहरियोगेश्वरोत्तरे च । “विसृजति हृदयं न यस्य साक्षा- द्धरिरवशाभिहितोऽप्यघौघनाशः । प्रणयरसनया धृताङ्घ्रिपद्मः स भवति भागघतप्रधान उक्तः ॥” तत्रैव मध्यममाह हरियोगेश्वरोक्तावेव । “ईश्वरे तदधीनेषु वालिशेषु द्बिषत्सु च । प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥” कनिष्ठता तत्रैव । “अर्च्चायामेव हरये पूजां यः श्रद्धयेहते । न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥ श्रद्धया पूजनं प्रेमबोधकं भक्त इत्यपि । प्रेम्णो हि करणात्तत्तु स्वलं भक्तानपेक्षणात् ॥ लक्षणानि च यान्यग्रे भक्तेर्लेख्यानि तान्यपि । बन्दनादीनि विद्यन्ते येषु भागवता हि ते ॥ एतानि लक्षणानीत्थं गौणमुख्यादिभेदतः । ऊह्यानि लक्षणान्येवं विवेच्यानि पराण्यपि ॥ ईदृग्लक्षणवन्तः स्युर्द्दुर्लभा बहवो जनाः । दिव्या हि मणयो व्यक्तं न वर्त्तन्ते इतस्ततः ॥” अतएवोक्तं मोक्षधर्म्मे नारदीये । जायमानं हि पुरुषं यं पश्येत्मधुसूदनः । सात्त्विकः स तु विज्ञेयो भवेन्मोक्षार्थनिश्चयः ॥” इति श्रीहरिभक्तिविलासे १० विलासः ॥



Correction: