संस्कृत-शब्दकोशः

भगालिन् भगिनीपति

भगिनी

वाचस्पत्यम्

भगिनी ||‍ स्त्री भगं यत्नः पित्रादीनां द्रव्यादानेऽस्त्यस्याः इनि ङीप् । १ सोदरायाम् स्वसरि अमरः । “भगिनीशुल्कं सोदर्य्याणाम्” दायभागः । २ खीमात्रे च शब्दच० ३ भाग्या- त्वितस्वीमात्रेऽपि तेन सर्वस्त्रीणां तत्पदेन संबोधनं विहितम् । “परपत्नी च या स्त्री स्यादसम्बन्धाश्च योनितः । तां ब्रूयाद्भवतीत्येवं सुभगे भगिनीति च” मनुः ।


शब्दकल्पद्रुमः

भगिनी || स्त्री सहोदरा । तत्पर्य्यायः । स्वसा २ । इत्यमरः । २ । ६ । २९ ॥ भगं यत्नः पित्रादितो द्रव्यदाने विद्यतेऽस्या इति इनिप्रत्ययेन भगिनी । इति तट्टीकायां भरतः ॥ (भगं योनिरस्या अस्तीति । भग + इनिः डीप् ।)
स्त्रीमात्रम् । यथा, —
“परिगृह्या च षामाङ्गी भगिनी प्रकृतिर्नरी ॥” इति शब्दचन्द्रिका ॥



Correction: