शब्दकल्पद्रुमः
भगिनीपतिः || पुं, (भगिन्याः पतिः ।)
स्वसृभर्त्ता । तत्पर्य्यायः । आवुत्त्रः २ भामः ३ । यथा, —
“भगिनीपतिरावुत्तो भावो विद्बानथावुकः ॥” इति नाट्योक्तावमरः । १ । ७ । १२ ॥ “अहो भगिन्यहो भाम ! मया वां वत पाप्मना । पुरुषाद इवापत्यं सुहृदोर्हिंसिताः सुताः ॥” इति श्रीभागवते १० स्कन्धे ४ अध्यायः ॥