संस्कृत-शब्दकोशः

भगो भग्न

भगोल

वाचस्पत्यम्

भगोल ||‍ पु० भानां नक्षत्राणां गोलाकारः पदार्थः । राशिचक्रे तस्य भ्रमणभेदादिकं सू० सि० उक्तं यथा “सव्यं भ्रमति देवानामपसव्यं सुरद्विषाम् । उपरि- ष्टाद् भगोलोऽयं व्यक्षे पश्चान्मुखः सदा” सू० सि० । “अयं प्रत्यक्षो भगोलो नक्षत्राधिष्ठितमूर्तगोलो देवानां मेरो- रुत्तराग्रवर्तिनां सव्यम् पूर्वादिकममार्गेणेत्यर्थः । भ्रमति भ्रमं परिवर्तं करोतीत्यर्थः । दैत्यानां मेरो- देक्षिणाग्रवर्तिनामपसव्यं पूर्वादिदिग्व्युत्क्रममार्गेण । पूर्वोत्तरपश्चिमदक्षिणक्रमेणेत्यर्थः । नक्षत्राधिष्ठितगोलो भ्रमति । व्यक्षे निरक्षदेशेषु जात्यभिप्रायेणैकवच- नम । उपरिष्टान्मस्तकोर्ध्वमध्यभागो भगोलः पश्चान्मुखः पश्चिमदिगभिमुखः सदा नित्यं परिभ्रमति भगोलस्य ध्रुवमध्यस्थत्वेन भ्रमणात् तयोस्तत्र क्षिति- जवृत्तस्थत्वाच्च” रङ्ग० । तस्य प्रत्यक्षदर्शनार्थं सि० शि० भगोलबन्धप्रकारमाह यथा “इदानीं भगोलबन्धमाह । “याम्योत्तरक्षितिजवत् सुदृढं विदध्यादाधारवृत्तयुगलं ध्रुवयष्टिबद्धम् । षष्ट्यङ्कमात्रस- ममण्डलवत् तृतीयं नाड्याह्वयं च विषुवद्वलयं तदेव” मू० । इदानीं क्रान्तिवृत्तमाह । “क्रान्तिवृत्तं विधेयं गृहाङ्कं भ्रमत्यत्र भानुश्च भार्धे कुभा भानुतः । क्रान्तिपातः प्र० तीपं तथा प्रस्फुटाः क्षेपपाताश्च तत्स्थानकान्यङ्कयेत्” । इदानीं क्रान्तिवृत्तस्य निवेशनमाह । “क्रान्तिपाते च पाताद्भषट्कान्तरे नाडिकावृत्तलग्नम् विदध्यादिदम् । पाततः प्राक्त्रिभे सिद्धभागैरुदग् दक्षिणे तैश्च भागै- र्विभागेऽपरे” । इदानीं विमण्डलमाह । “नाडिकामण्डले क्रान्तिवृत्ते तथा क्षेपवृत्तं न्यसेत् । क्षेपवृत्तं तु राश्य- ङ्कितं तत्र च क्षेपपातेषु चिह्नानि कृत्वोक्तवत् । क्रान्तिवृत्तस्य विक्षेपवृत्तस्य च क्षेपपाते सषड्भे च कृत्वा युतिम् । क्षेपपाताग्रतः पृष्ठतश्च त्रिभे क्षेपभागैः स्फुटैः सौम्ययाम्ये न्यसेत् शीघ्रकर्णेन भक्तास्त्रिभज्यागुणाः स्युः परक्षेपभागा ग्रहाणां स्फुटाः । क्षेपवृत्तानि षण्णां विदध्यात् पृथक् स्वस्ववृत्ते भ्रमन्तीन्दुपूर्वा महाः” । इदानीं क्रान्तिं विक्षेपं चाह । “नाडिकामण्डलात् तिर्यगत्रापमः क्रान्तिवृत्तावधिः क्रान्तिवृत्ताच्छरः । क्षेपवृ- त्तावधिस्तिर्यगेवं स्फुटो नाडिकावृत्तखेटान्तरालेऽपमः” । इदानीं क्रान्तिपातानां विषुवत्क्रान्तिवलययोः सम्पातः क्रान्तिपातः स्यात् । तद्भगणाः सौरोक्ता व्यस्ता अयुत- त्रयं कल्पे । अयनचलनं यदुक्तं मुञ्जालाद्यैः स एवायम् । तत्पक्षे तद् भगणाः कल्पे गीऽङ्गार्तुः नन्दगोचन्द्राः । तत् संजातं पातं क्षित्या खेटेऽपमः साध्यः । क्रान्तिवशाच्चरसुदयाश्चरदललग्नापमे ततः क्षेप्यः” । इदानीं विक्षेपपातानाह । “एवं क्रान्तिविम- ण्डलसपाताः क्षेपपाताः स्युः । चन्द्रादीनां व्यस्ताः क्षेपानयने तु ते योज्याः । मन्दस्फुटो द्राक् प्रतिमण्डले हि ग्रहो भ्रमत्यत्र च तस्य पातः । पातेन युक्ताद्- गणितागतेन मन्दस्फुटात् खेचरतः शरोऽस्मात् । पातेऽथ वा शीघ्रफलं विलोमं कृत्वा स्फुटात् तेन युताच्छरोऽतः । चन्द्रस्य कक्षाबलये हि पातः स्फुटा- द्विधोर्मध्यमपातयुक्तात्” । इदानीं ज्ञशुक्रयोर्विशेषमाह “ये चात्र पातभगणा पठिताज्ञभृग्वोस्ते शीघ्रकेन्द्र- भगणैरधिका यतः स्युः । सूक्ष्माः सुस्वार्थमुदिताश्चल- केन्द्रयुक्तौ पातौ तयोः पठितचक्रभवौ विधेयौ । चलाद्विशोध्यः किलकेन्द्रसिद्ध्यै सपातेद्युचरस्तु योज्यः । अतश्चलात् पातयुताज्ज्ञभृग्वीः सुधीभिराद्यैः शर- सिद्धिरुक्ता । स्फुटी न शीघ्रोच्चयुतौ स्फुटौ तयोः पातौ भगोले स्फुट एव पातः” । इदानीं ग्रहगोले विशेषमाह । ग्रहस्य गोले कथितापमण्डलं प्रकल्प्य कक्षाबलय यथोदितम् । निबध्य शीघ्रप्रतिवृत्तमस्मिन् विमण्डलं तत्पठितैः शराशैः । मध्येऽत्र पातोद्युसदां ज्ञभृग्वोः खशीघ्रकेन्द्रेण युतस्तु देयः । इदानीमहोरा- त्रवृत्तमाह । “ईप्सितक्रान्तितुल्येऽन्तरे सर्वतो नाडिका- स्यादहोरात्रवृत्ताह्वयम् । तत्र बद्ध्वा घटीनां च षष्ठ्याङ्क- येद्यस्य विष्कम्भखण्डं द्युजीवा मता । इदानीमन्यदाह । “अथ कल्प्यामेषाद्या अनुलोमं क्रान्तिपाताङ्कात् । एषां मेषादीनां द्युरात्रवृत्तानि बध्नीयात् । नाडीवृत्तोभयत- स्त्रीणि त्रीणि क्रमोत्क्रमात् तानि” । इदानीमस्योपसं- हारमाह “एष भगोलः कथितः खेचरगोलोऽयमेव विज्ञेयः । अत्रापमण्डले वा सूत्राधारैरधश्च तस्यैव । शन्यादीनां कक्षा बध्नीयादूर्णनाभजालामाः । बद्ध्वा भगोलमेवं यष्ट्यां यष्टिं खगोलनलिकान्तः । प्रक्षिप्य भ्रमयेत् तं यष्ट्याधारं स्थिरौ खट्टग्गोलौ” सि० शि० ।


शब्दकल्पद्रुमः

भगोलः || पुं, (भानां नक्षत्राणां गोलः । नक्षत्र- समूहेन विरचितः गोलाकारः पदार्थ इत्यर्थः ।)
भपञ्जरम् । नक्षत्रचक्रम् । यथा । इदानीं भगोलमाह । “याम्योत्तरक्षितिजवत् सुदृढं विदध्या- दाधारवृत्तयुगलं ध्रुवयष्टिबद्धम् । षष्ट्यङ्कमत्र सममण्डलवत्तृतीयं नाड्याह्वयञ्च विषुवद्बलयं तदेव ॥” यथा खगोले क्षितिजं याम्योत्तरञ्च तदाकार- मपरमाधारवृत्तद्वयं ध्रुवयष्टिस्थं कृत्वा तदुपरि अन्यत्तृतीयं सममण्डलाकारं घटीषष्ट्या चाङ्कितं कार्य्यं तन्नाडीवृत्तं विषुवत् वृत्तसंज्ञम् ॥ * ॥
इदानीं क्रान्तिवृत्तमाह । “क्रान्तिवृत्तं गृहाङ्कं विधेयं भ्रम- त्यत्र भानुश्चं भार्द्धे कुभा भानुतः । क्रान्तिपातः प्रतीपं तथा प्रस्फुटा क्षेपपातश्च तत्स्थानकान्यङ्कयेत् ॥ अथान्यत्तत्प्रमाणमेव वृत्तं कृत्वा तत्र मेषादीन् प्रकल्प्य द्बादशराशयोऽङ्क्याः ॥” तत्क्रान्तिवृत्तसंज्ञम् । तस्मिन् वृत्ते रविर्भ्रमति तथा रवेर्भार्द्धान्तरे भूभा च । तथा तत्र क्रान्तिपातो मेषादिर्विलोमं भ्रमति । तथा ग्रहाणां विक्षेपपाताः प्रस्फुटा विलोमं भ्रमन्ति । अतः क्रान्तिपातादीनि स्थानानि तत्राङ्क्यानि ॥ इदानीं क्रान्तिवृत्तनिवेशमाह । “क्रान्तिपाते च पाताद्भषट्कान्तरे नाडिकावृत्तलग्नं विदध्यादिदम् । पाततः प्राक् त्रिभे सिद्धभागैरुदग् दक्षिणे तैश्च भागैर्विभागेऽपरे ॥” क्रान्तिपातचिह्नात् षड्भेऽन्तरेऽन्यच्चिह्नं कार्य्यम् । ते चिह्रे नाडीवृत्तेन संसक्ते कृत्वा पातचिह्रा- दग्रतः त्रिभेऽन्तरे नाडीवृत्ताद्भागचतुर्विंशत्या उत्तरतो यथा भवति । अपरभागे त्रिभेऽन्तरे दक्षिणतश्च तैर्मार्गैर्यथा भवति तथा बध्नी- यात् ॥ * ॥
इदानीं विमण्डलमाह । “नाडिकामण्डले क्रान्तिवृत्तं यथा क्रान्तिवृत्ते तथा क्षेपवृत्तं न्यसेत् । क्षेपवृत्तन्तु राश्यङ्कितं तत्र च क्षेपपातेषु चिह्नानि कृत्तोक्तषत् ॥ क्रान्तिवृत्तस्य विक्षेपवृत्तस्य च क्षेपपाते सषड्भे च कृत्वा युतिम् । क्षेपपाताग्रतः पृष्ठतश्च त्रिभे क्षेपभागैः स्फुटैः सौम्ययाम्ये न्यसेत् ॥ शीघ्रकर्णेन भक्तास्त्रिभज्या गुणाः स्युः परक्षेपभागा ग्रहाणां स्फुटाः । क्षेपवृत्तानि षण्णां विदध्यात् पृथक् स्वस्ववृत्ते भ्रमन्तीन्दुपूर्ब्बा ग्रहाः ॥” अस्य श्लोकस्य समग्रस्य व्याख्यानम् । यथा क्रान्तिवृत्तं पृथक् कृतं एवं विमण्डलमपि राश्यङ्कं पृथक् पृथक् कृत्वा तत्र मेषादेर्व्यस्तं स्फुटक्षेपपातं दत्त्वाग्रे चिह्नं कार्य्यम् । अथ क्रान्तिवृत्तस्य बिमण्डलस्य च क्षेपपातचिह्नयोः सम्पातं कृत्वा तस्मात् षड्भेऽन्तरे अन्यञ्च सम्पातं कृत्वा क्षेपपाताग्रतस्त्रिभेऽन्तरे क्रान्ति- वृत्तादुत्तरतः स्फुटैः क्षेपभागैः पृष्ठतश्च त्रिभे- ऽन्तरे तैरेव भागैर्दक्षिणतः स्थिरं कृत्वा विम- ण्डलं निवेशनीयम् । अथ पठिता ये विक्षेप- भागास्ते त्रिज्या गुणाः शीघ्रकर्णेन भक्ताः स्फु टा ज्ञेयाः ॥ * ॥
अथानुपातः । यदि कर्णाग्रं एतावदन्तरं तर्हि त्रिज्याग्रे कियदिति । यतो भगोले त्रिज्यैव व्यासार्द्धम् । एवं चन्द्रादीनां षट् विमण्डलानि कार्य्याणि । स्वस्वविमण्डले ग्रहा भ्रमयन्ति ॥ इदानीं क्रान्तिं विक्षेपञ्चाह । “नाडिका मण्डला तिर्य्यगत्रापमः क्रान्तिवृत्तावधिः क्रान्तिवृत्ताच्छरः । क्षेपवृत्तावधितिर्य्यगेव स्फुटो नाडिकावृत्तखेटान्तरालेऽपमः । क्रान्तिवृत्ते स्फु टग्रहस्थानं तस्य नाडीवृत्ताद्यत्तिर्य्यगन्तरं सा क्रान्तिः ॥” अथ विमण्डले च यद्ग्रहस्थानं तस्य क्रान्ति- वृत्तात् यत्तिर्य्यगन्तरं स विक्षेपः । अथ विम- ण्डलस्थग्रहस्य नाडीवृत्ताद्यत्तिर्य्यगन्तरं सा स्फु टा क्रान्तिः ॥ * ॥
इदानीं क्रान्तिपातमाह । विषुवत्क्रान्तिवलययोः संपातः क्रान्तिपातः स्यात् । तद्भगणाः सौरोक्ता व्यस्ता अयुतत्रयं कल्पे ॥ अयनचलनं यदुक्तं मुञ्जालाद्यैः स एवायम् । तत्पक्षे तद्भगणाः कल्पे गोऽङ्गर्त्तु- नन्दगोचन्द्राः १९९६६९ ॥ तत् सञ्जातं पातं क्षिप्त्वा खेटेऽपमः साध्यः । क्रान्तिवशात्तच्चर- मुदयाश्चरदललग्नापमे ततः क्षेप्याः । क्रान्त्यर्थ- पातः क्रान्तिपातः । पातो नामसन्यातः कयोः विषुवत्क्रान्तिबलययोः । नहि तयोर्मेषादावेव सम्पातः । किन्तु तस्यापि चलनमस्ति । ये अयनचलबभागाः प्रसिद्धास्त एव विलोमगस्य क्रान्तिपातस्य भागाः । मेषादेः पृष्ठतस्ता- बद्भागान्तरे क्रान्तिवृत्ते विषुवद्वृत्तं लग्न- मित्यर्थः । नहि क्रान्तिपातोऽस्तीति वक्तुं न शक्यते । प्रत्वक्षेण तस्योपलब्धत्वात् । उप- लब्धिप्रकारमग्रे वक्ष्यति । स कथं ब्रह्मगुप्ता- दिभिर्निपुणैरपि नोक्त इति चेत् । तदा स्वल्पत्वात्तैर्नोपलब्धः । इदानीं बहुत्वात् साम्प्रतैरुपलब्धः । अतएव तस्य गतिरस्तीत्यव- गतम् । यद्येवमप्यनुपलब्धोऽपि सौरसिद्धा- न्तोक्तत्वादागमप्रामाण्येन भगणपरिध्यादिवत् कथं तैर्नोक्तः । सत्यम् । अत्र गणितस्कन्धे उपपत्तिमानेवागमः प्रमाणम् । तर्हि मन्दोच्च- पातभगणा आगमप्रामाण्येनैव कथं तैरुक्ता इति न वक्तव्यम् । यतो ग्रहाणां मन्दफला- भावस्थानानि प्रत्यक्षेणैवोपलभ्यन्ते तान्येव मन्दोच्चस्थानानि यान्येव विक्षेपाभावस्थानि तान्येव पातस्थानानि किन्तु तेषां गतिरस्ति नास्ति वेति सन्दिग्धम् । तत्र मन्दोच्चपातानां गतिरस्ति । चन्द्रमन्दोच्चपातवदित्यनुमानेन सिद्धा । सा च कियती तदुच्यते । यैर्भगणैरुप- लब्धिस्थानानि तानि गणितेनागच्छन्ति । तद्भ- गणसम्भवा वार्षिकी दैनन्दिनी वा गतिर्ज्ञेया । नैवम् । यदन्यैरपि भगणैस्तान्येवस्थानानि आग- च्छन्ति । तदा कतरस्यागतेः प्रामाण्यम् । सत्यम् तर्हि साम्प्रतीपलब्ध्यनुसारिणी कापि गतिरङ्गी- कर्त्तव्या । यदा पुनर्महता कालेन महदन्तरं भविष्यति तदा महामतिमन्तो ब्रह्मगुप्तादीनां समानधर्म्मिण एव उत्पत्स्यन्ते । तदुपलब्ध्यनु- सारिणीं गतिमुररीकृत्य शास्त्राणि व्याकरि- ष्यन्ति । अतएवायं गणितस्कन्धो महामति- मद्भिर्दृष्टः सन् अनाद्यनन्ते कालेऽपि खिलत्वं न याति । अतोऽस्य क्रान्तिपातस्य भगणाः कल्पेऽयुतत्रयं तावत् सूर्य्यसिद्धान्तोक्ताः । तथा मुञ्जालाद्यैर्यदयनचलनमुक्तं स एव क्रान्ति- पातः । ते गोऽङ्गर्त्तुनन्दगोचन्द्रा उत्पद्यन्ते । अथ च ते वा ये वा भगणा भवन्तु । यदा येऽंशा निपुणैरुपलभ्यन्ते तदा स एव क्रान्ति- पात इत्यर्थः । तं विलोमं क्रान्तिपातं ग्रहे प्रक्षिप्य क्रान्तिः सान्या । इदानीं विक्षेप- पातानाह । एवं क्रान्तिविमण्डलसम्पाताः क्षेपपाताः स्युः । चन्द्रादीनां व्यस्ताः क्षेपानयने तु ते योज्याः । “मन्दस्फुटो द्राक् प्रतिमण्डले स्वे ग्रहो भ्रमत्यत्र च तस्य पातः । पातेन युक्ता गणितागतेन मन्दस्फुटात् खेचरतः शरोऽस्मात् ॥ पातेऽथवा शीघ्रफलं विलोमं कृत्वा स्फुटान्तेन युताच्छरोऽतः । चन्द्रस्य कक्षाबलये हि पातः स्फुटाद्बिधोर्मध्यमपातयुक्तात् ॥” तथा क्रान्तिवृत्तविमण्डलयोः सम्पातः क्षेप- पातः । तं ग्रहे प्रक्षिप्य क्षेपः साध्यः । एत- दुक्तं भवति क्रातिपातः प्रसिद्धः । यथा तं ग्रहे प्रक्षिप्य क्रान्तिः साध्यत एव क्षेपपातं ग्रहे प्रक्षिप्य क्षेपः साध्य इत्यर्थः । अथ विक्षेपपातो मन्दस्फुटे यत् प्रक्षिप्यते तत्कारण- माह । मन्दस्फुटो द्राक् प्रतिमण्डल इत्यादि । यतः शीघ्रप्रतिमण्डले मण्डलस्फुटगत्या ग्रहो भ्रमति तत्र च वृत्ते पातः । अतो गणितागत- पातं मन्दस्फुटे प्रक्षिप्य क्षेपः साध्यते । शेषं स्पष्टार्थम् ॥ * ॥
इदानीं ज्ञशुक्रयोर्विशेषमाह । “ये चात्र पातभगणाः कथिता ज्ञभृग्वो स्ते शीघ्रकेन्द्रभगणैरधिका यतः स्युः । स्वल्पाः सुखार्थमुदिताश्चलकेन्द्रयुक्तौ पातौ तथोः पठितचक्रभवौ विधेथौ ॥ चलाद्विशोध्यः किल केन्द्रसिद्ध्यै केन्द्रे सपाते द्युचरस्तु योज्यः । अतश्चलात् पातयुताद् ज्ञभृग्वोः सुधीभिराद्यैः शरसिद्धिरुक्ता ॥” “स्फुटोनशीघ्रोच्चयुतौ स्फुटौ तयोः पातौ भगोले स्फुट एव पातः ॥” ननु ज्ञशुक्रयोः शीघ्रोच्चपातयुतिं केन्द्रं कृत्वा यो विक्षेप आनीतः स शीघ्रोच्चस्थान एव भवितु- मर्हति न ग्रहस्थाने । यतो ग्रहोऽन्यत्र वर्त्तते । अत इदमनुपपन्नमिव प्रतिभाति । तथा ब्रह्म- सिद्धान्तभाष्ये । ज्ञशुक्रयोः शीघ्रोच्चस्थाने यावान् विक्षेपस्तावानेव यत्रतत्रस्थस्यापि ग्रहस्य भवत्यत्रोपलब्धिरेव वासना । नान्यत् कारणं वक्तुं शक्यत इति चतुर्व्वेदे नाप्यनध्य- वसायोऽत्र कृतः । अत्रोच्यते । येऽत्र ज्ञशु- क्रयोः पातभगणाः पठितास्ते शीघ्रकेन्द्रभगणै- र्युताः सन्तस्तद्भगणा भवन्ति । तथा च माध- वीये सिद्धान्तचूडामणौ पठिताः । अतोऽल्प- भगणभवः पातः स्वशीघ्रकेन्द्रेण युतः कार्य्यः । शीघ्रोच्चाद्ग्रहे शोधिते शीघ्रकेन्द्रं तस्मिन् स पाते क्षेपकेन्द्रकरणार्थं ग्रहः क्षेप्यः । अतस्तुल्य- शोध्यक्षेपकयोः नाशे कृते शीघ्रोच्चपातयोग एवावशिष्यत इत्युपपन्नम् । किञ्च । मन्दस्फु- दोनं शीघोच्चं प्रतिमण्डले चलकेन्द्रं तत्पाते क्षेप्तुं युज्यते । एवं कृते सति क्षेपकेन्द्रं मन्द- फलेनान्तरितं स्यात् । तदङ्गीकृतम् । इतर- केन्द्रस्यानुपपत्तेः । अतो मन्दफलं पाते व्यस्तं देयम् । यतोऽनुपातसिद्धं चलकेन्द्रं मध्योनं शीघ्रोच्चं भवति । यत्तु भगोले क्रान्तिवृत्तं तत् कक्षावृत्तं तत्र यद्विमण्डलं तत्र स्फुटग्रहः । तत्स्फुटपातयोगो हि विक्षेपकेन्द्रं अतः स्फुट- पातस्थाने सम्पातं कृत्वा ततस्त्रिभेऽन्तरे स्फुटी- कृतैः परमक्षेपांशैः प्राग्वदुत्तरे दक्षिणे च विन्यस्यम् । तथा न्यस्ते विमण्डले स्फुटग्रह- स्थाने विक्षेपः स्फुटविक्षेपेण गणितागतेन तुल्यो दृश्यते नान्यथेत्यर्थः ॥ * ॥
इदानीं ग्रहगोले विशेषमाह । “ग्रहस्य गोले कथितापमण्डलं प्रकल्प्य कक्षाबलयं यथोदितम् । निबध्य शीघ्रप्रतिवृत्तमस्मिन् विमण्डलं तत् पठितैः शरांशैः ॥ मध्योऽत्र पातो द्युषदां ज्ञभृग्वोः स्वशीघ्रकेन्द्रेण युतौ तु योज्याः ॥” भगोल एव तावद्ग्रहगोलः कल्प्यः तत्र एफुट एव पातः । अथ यदि तदन्तर्ग्रहगोलोऽन्यो निबध्यते तदा तत्र यथोक्तविषुवद्वृत्तं क्रान्ति- वृत्तञ्च बद्ध्वा कक्षामण्डलं प्रकल्प्य तत्र छेद्यकोक्त- विधिना शीघ्रप्रतिमण्डलं बद्ध्वा तत्र प्रतिमण्डले गणितागतपातं मेषादेर्विलोमं गणयित्वा तत्र चिह्रं कार्य्यम् । अथ त्रिज्या व्यासार्द्धमेवान्यद्वृत्तं राश्यङ्कं विमण्डलाख्यं कृत्वा तत्रापि मेषादेर्व्यस्तं पाताग्रे चिह्नं कृत्वा प्रतिमण्डलविमण्डलयोः सम्पातचिह्रे प्रथमं सम्पातम् । ततो भार्द्धान्तरे द्बितीयं कृत्वा पातादग्रतः पृष्ठतश्च त्रिभेऽन्तरे परमविक्षेपांशैः पठितैः प्रतिवृत्तादुत्तरे दक्षिणे च विमण्डलं न्यस्यम् । तत्र मन्दस्फुटगत्या पारमार्थिको ग्रहो भ्रमति । अतो मेषादेरनु- लोममन्दण्फुटो विमण्डले देयः । स तत्रस्थः प्रतिमण्डलात् यावतान्तरेण विक्षिप्तस्तावान् तत्प्रदेशे विक्षेपः । यतो वृत्तसंपातस्थे ग्रहे विक्षेपाभावः त्रिभेऽन्तरे परमो विक्षेपो मध्ये- ऽनुपातेन । अतो वृत्तसम्पातग्रहयोरन्तरं ज्ञेयम् । तदन्तरं पातग्रहयोगे कृते भवति । पातस्य विलोमगत्वात् । संयोगः शरार्थं केन्द्रम् । यदि त्रिज्यातुल्यया केन्द्रज्यया परम- शरस्तदाभीष्टयानया क इति फलं प्रतिमण्डल- विमण्डलयोस्तिर्य्यगन्तरं स्यात् । विमण्डलस्थ- ग्रहाद्भूमध्यगं सूत्रं तद्भूमध्यग्रहान्तरं स च शीघ्रकर्णः । यदि भूमध्यात् कर्णाग्रे एतावान् विक्षेपस्तदा त्रिज्याग्रे कियानिति द्वितीयत्रैरा- शिकम् । आद्ये त्रिज्या हरो द्वितीये गुणः । तयोर्नाशे कृते केन्द्रज्यायाः परमशरगुणायाः कर्णो हरः फलं कक्षावृत्तसूत्रयोस्तिर्य्यगन्तरं स्फुटशरः ॥ * ॥
इदानीमहोरात्रवृत्तमाह । ईप्सितक्रान्तितुल्येऽन्तरे सर्व्वतो नाडिकाख्या- दहोरात्रवृत्ताह्वयं तत्र बद्ध्वा । घटीनाञ्च षष्ट्या- ङ्कयेदस्य विष्कम्मखण्डं द्युजीवा मता । नाडी- वृत्तादुत्तरतो दक्षिणतो वा सर्व्वत्रेष्टक्रान्ति- तुल्यान्तरे यद्वृत्तं निबध्यते तदहोरात्रवृत्तं तेन वृत्तेन तस्मिन् दिने रविर्भ्रमतीत्यर्थः । तस्य वृत्तस्य व्यासार्द्धं द्युज्या ॥ * ॥
इदानी- मन्यदाह । अथ कल्प्या मेषाद्या ह्यनुलोमं क्रान्तिपाताङ्कात् एषा मेषादीनां द्युरात्र- वृत्तानि बध्नीयात् । नाडीवृत्तोभयतस्त्रीणि त्रीणि क्रमोत्क्रमात्तानि । क्रान्तिपातादारभ्य त्रिंशत्त्रिंशद्भिर्भागैरन्यान् मेषादीन् प्रकल्प्य तदग्रेषूक्तवदहोरात्रवृत्तानि बध्नीयात् । तानि च नाडीवृत्तोभयतस्त्रीणि त्रीणि भवन्ति तान्येव क्रमोत्क्रमतः सायनांशार्कस्य द्वादश- राशीनाञ्च ॥ * ॥
इदानीमस्योपसंहारः । एष भगोलः कथितः खेचरगोलोऽयमेव विज्ञेयः । इति सिद्धान्तशिरोमणिः ॥



Correction: