वाचस्पत्यम्
भग्न || त्रि० भन्ज—क्त । १ कृतावयवभेदे २ रोगभेदे हेमच० । तन्निदानभेदादिकं सुश्रुते उक्तं यथा “अथातो भग्नानां निदानं व्याख्यास्यामः । पतनपीड- नप्रहाराक्षेपणव्यालमृगदशनप्रभृतिभिरभिथातविशेषैरने- कविधमस्थ्नां भङ्गमुपादिशन्ति तत् तु भङ्गजातमनुसार्य्य- माणं द्विविधमेवोत्पद्यते सन्धिमुक्तं काण्डभग्नञ्च । तत्र सन्धिमुक्तमुत्पिष्टं विश्लिष्टं विवर्त्तितमवक्षिप्तमति- क्षिप्तं तिर्य्यक्क्षिप्तमिति षड्विधम् । तत्र प्रसारणान कुञ्चनविवर्त्तनाक्षेपणाऽशक्तिरुग्ररुजत्वं स्पर्शासहत्वं चेति सामान्यं सन्धिमुक्तलक्षणमुक्तम् । विशेषेणोत्पिष्टे सन्धाबुभयतः शोफो वेदनाप्रादुर्भावी विशेषतश्च नाना- प्रकारा वेदना रात्रौ प्रादुर्भवन्ति । विश्लिष्टेऽल्पशोफो वेदनासातत्यं सन्धिविक्रिया च । विवर्त्तिते तु सन्धि- पार्श्वापगमनाद्विषमाङ्गता वेदना च । अवक्षिप्ते सन्धि- विश्लेषस्तीव्ररुजत्वञ्च । अतिक्षिप्ते द्वयोः सन्ध्यस्थ्नोरति- क्रान्तता वेदना च । तिर्य्यक्क्षिप्ते त्वेकास्थिपार्श्वाप- गमनमत्यर्थं वेदना चेति । काण्डभग्नमत ऊर्द्ध्वं वक्ष्यामः कर्कटकमश्वकर्णं चूर्णितं पिच्चितमस्थिच्छल्लितं काण्ड- भग्नं मज्जानुगतमतिपातितं वक्रं छिन्नं पाटितं स्फुटितमिति द्वादशविधम् । श्वयथुबाहुल्यं स्पन्दन विवर्त्तनस्पर्शासहिष्णुत्वमवपीड्यमाने शब्दः स्रस्ताङ्गता विधवेदनाप्रादुर्भावः सर्वास्ववस्थासु न शर्मलाभ इति समासेब काण्डभग्नलक्षणमुक्तम् । विशेषतस्तु संमूढमुभयतोऽस्थिमध्यभग्नं ग्रन्थिरिवोन्नतं कर्कटकम् । चूर्णितमस्थि तत् तु शब्दस्पर्शाभ्यां बोद्धव्यम् । पिच्चितं पृथुताङ्गतमनल्पशोफम् । पार्श्वयोरस्थिहीनोद्गतम- स्थिच्छल्लितम् । वेल्लेत प्रकम्पमानं काण्डभग्नत्वम् । अस्थ्यवयवोऽस्थिमध्यमनुप्रविश्य मज्जानसुन्नह्यतीति मज्जानुगतम् । अस्थि निःशेषतश्छिन्नमतिपतितम् । आभुग्नमविमुक्तास्थि वक्रम् । अन्यतरपार्श्वावशिष्टं छि- न्नम् । पाटितमणु बहुविदारितं वेदनावच्च । शूकपूर्ण- मिवाध्मातं विपुलं विस्फुटीकृतं स्फुटितमिति । तेषु चूर्णितच्छिन्नातिपातितमज्जानुगतानि कृच्छ्रसाध्यानि कृशवृद्धबालानां क्षतक्षीणकुष्ठश्वासिनां सन्ध्युपगतञ्चेति । भवन्ति चात्र “भिन्नं कपालं कट्यान्तु सन्धिमुक्तं तथा च्युतम् । जघनं प्रतिपिष्टञ्च वर्जयेत् तच्चिकित्ससकः । असंश्लिष्टं कपालन्तु ललाटे चूर्णितञ्च यत् । भग्नं स्तनान्तरे शङ्खे पृष्ठे मूर्ध्नि च वर्जयेत् । आदितो यच्च दुर्ज्जातमस्थिसन्धिरथापि वा । सम्यक् संहितमप्यस्थि दुर्न्यासाद् दुर्निबन्धनात् । सङ्क्षोभाद्वापि यद्गच्छेद्वि- क्रियां तत् तु बर्जयेत् । मध्यस्य वयसोऽवस्थास्तिस्रो याः परिकीर्त्तिताः । तत्र स्थिरो भवेज्जन्तुरुपक्रान्तो विजांनुता । तरुणास्थीनि नम्यन्ते भज्यन्ते नलकानि तु । कपालानि विभिद्यन्ते स्फुटन्ति रुचकानि च” ।
शब्दकल्पद्रुमः
भग्नं || क्ली (भज्यते आमर्द्द्यते विश्लेष्यते इति । भञ्ज + क्तः ।)
रोगविशेषः । अथ भग्नाधिकारः । तत्र भग्नस्य भेदमाह । “भग्नं समासाद्द्विविधं हुताश ! काण्डे च सन्धावपि तत्र सन्धौ । उत्पिष्टविश्लिष्टविवर्त्तितानि तिर्य्यग्गतं क्षिप्तमधश्च षड्धा ॥” भग्नमत्र भावार्थे क्तप्रत्ययस्तेन भग्नं भङ्गः स चात्र विश्लेषोऽभिप्रेतः । तेन भग्नमत्रास्थि- विश्लेषलक्षणम् । समासात् संक्षेपात् । हुताश ! हे अग्निवेश ! । यतश्चरकेऽग्निवेशस्य हुताशेति नामान्तरमुक्तम् । काण्डे सन्धिपर्य्यन्ते एक- खण्डे । अस्थिसन्धौ द्वयोरस्थ्नोः सन्धानस्थाने । तत्र सन्धौ उत्पिष्टादिभेदैः षट्प्रकारं भग्नं भवति । स्वल्पवक्तव्यत्वेन सन्धिभग्नस्यादौ विव- रणम् । उत्पिष्टेत्यादि । अधः अधोभग्नम् ॥ * ॥
सन्धिभग्नस्य सामान्यं लिङ्गमाह । “प्रसारणाकुञ्चनवर्त्तनोग्रा- रुक्स्पर्शविद्वेषणमेतदुक्तम् । सामान्यतः सन्धिगतस्य लिङ्ग- मुत्पिष्टंसन्धेः श्वयथुः समन्तात् ॥ विशेषतो रात्रिभवा रुजश्च विश्लिष्टके तौ च रुजा च नित्यम् ॥” वर्त्तनं परिवर्त्तनम् ॥ * ॥
उत्पिष्टस्य लिङ्गमाह । उत्पिष्टसन्धेः उत्पिष्टः द्बाभ्यामस्थिभ्यां पिष्टः सन्धिर्यस्य तस्य । समन्तात् उभयभागद्वयोः । विश्लिष्टमाह विश्लिष्ट इत्यादि । तौ उभयतः शोथौ । रुजा च नित्यं सदा रुजाधिका भवती- त्युत्पिष्टाद्भेदः ॥ * ॥
विवर्त्तिततिर्य्यग्गताक्षिप्ताधो- गतानाह । “विवर्त्तिते पार्श्वरुजश्च तीव्रा- स्तिर्य्यग्गते तीव्ररुजो भवन्ति । क्षिप्तेऽतिशूलं विषमञ्च सक्थ्नोः क्षिप्ते त्वधो रुक् विघटश्च सन्धेः ॥” विवर्त्तिते सन्धावमुक्ते । अस्थिद्बयोपरिवर्त्तिते पार्श्वरुजः सन्धिस्थितास्थिखण्डद्बयपार्श्वयो रुजः । तिर्य्यग्गते सन्धिगते । एकस्मिन्नस्थ्नि सन्धिस्थानं त्यक्त्वा तिर्य्यग्गते क्षिप्ते सक्थ्नोः ऊरुसन्ध्योः । एकस्मिन्नस्थ्नि परस्यास्थ्न उपरिगते । सक्थ्नोः अतिशूलं तत्र विषमं कदाचिदधिकं कदाचिन्न्यूनम् । अधःक्षिप्ते सन्धिगते एक- स्मिन्नस्थ्नि अघोगते । रुक् सन्धेर्विघटः विघ- टनञ्च ॥ * ॥
काण्डभग्नमाह । भग्नञ्च काण्डे बहुधा प्रयाति विशेषतो नामभिरेव तुल्यम् । भग्नं काण्डे काण्डविषये बहुधा बहुभिः प्रकारैः प्रयाति । अत्र बहुविधत्वं द्वादशविधत्वं बोद्धव्यम् । बहुविधस्य काण्डभग्नस्य पृथक् लक्षणं नोक्तं किन्तु काण्डंनामभिरेव तुल्यत्वम् । कर्कटकादिनामानुरूपमेव लक्षणं किन्तु नामभिरेव बोद्धव्यम् ॥ * ॥
तान् प्रकारा- नाह । “काण्डे त्वतः कर्कटकाश्वकर्णौ विचूर्णितं पिच्चितमस्थि छल्लितम् । काण्डेषु भग्नं ह्यतिपातितञ्च मज्जागतं विस्फुटितञ्च वक्रम् ॥” छिन्नं द्बिधा द्बादशधा च काण्डे । अतः सन्धि- भग्नानन्तरं काण्डे काण्डभग्ने तदाह । कर्कटकः अस्थिविश्लेषपूर्ब्बको मध्ये प्रोन्नतः पार्श्वयोरव- नतः कर्कटतुल्यरूपत्वात् कर्कटः । अश्वकर्णः अश्वकर्णवद्विपुलास्थिनिर्गमादश्वकर्णः । विचू- र्णितं चूर्णितमस्थि तच्च शब्दस्पर्शाभ्यां बोद्धव्यम् । पिच्चितमस्थि नियन्त्रितं बहुशोथम् । छल्लितं विश्लिष्टं सम्यक्स्रवम् । काण्डेषु भग्नं काण्ड- भग्नम् । यद्यपि कर्कटकादि सर्व्वमेव काण्डभग्नं तथापि इयं काण्डभग्नसंज्ञांविशिष्टा । अत्र भग्नं भङ्गः त्रुटिः तेन सर्व्वथा त्रुटितं पृथग्भूतं त्वचि स्थितं यत्र काण्डं तत्काण्डभग्नम् । अतिपातितं अशेषेण छित्त्वा पातितमस्थि । मज्जागतं अस्थ्यवयवोऽस्थिमध्ये प्रविश्य मज्जानं गतम् । विस्फुटितं स्तोकविदीर्णं वक्रं स्थानं त्यक्त्वा कुब्जीभूतम् । छिन्नं द्बिधा एकं विदीर्णं सत् लग्नं अपरं विदीर्य्य द्विधाभूतम् । द्वादशधा च काण्डे । काण्डे च भग्नं द्वादशधेत्यन्वयः । तच्चोक्तमेव कर्कटकादि ॥ * ॥
काण्डभग्नस्य सामान्यं लक्षणमाह । “स्रस्ताङ्गता शोथरुजातिवृद्धिः संपीड्यमाने भवतीह शब्दः । स्पर्शासहं स्पन्दनतोदशूलं सर्व्वास्ववस्थामु न शर्म्मलाभः ॥” भग्नस्य काण्डे खलु चिह्नमेतत् ॥” स्पर्शासहमिति काण्डभग्नस्य विशेषणं स्पन्दनं नाडीनां स्फुरणं शूलं शूलेनेव व्यथा । रुजा सामान्या पीडा । सर्व्वास्ववस्थासु शयनासना- दिषु ॥ कष्टसाध्यमाह । “अल्पाशिनोऽनात्मवतो जन्तोर्वातात्मकस्य च । उपद्रवैर्वा जुष्टस्य भग्नं कृच्छेण सिध्यति ॥” अनात्मवतो रोगप्रतीकारे यत्नरहितस्य । वातात्मकस्य च वातप्रकृतेः । उपद्रवैः ज्वरा- ध्मानमोहमूत्रपुरीषसङ्गादिभिः ॥ * ॥
असाध्य- माह । “भिन्नं कपालं कट्यान्तु सन्धिमुक्तं तथा च्युतम् । जघनं प्रतिपिष्टञ्च वर्जयेत्तच्चिकित्सकः ॥” कपालं जानुनितम्बांसगण्डतालुशङ्खवङ्क्षणशिरो ऽस्थीनि कपालानि तथा च्युतं तथा क्षिप्तम् । प्रतिपिष्टं उत्पिष्टम् ॥ पुनरसाध्यमाह । “असंश्लिष्टकपालञ्च ललाटे चूर्णितञ्च यत् । भग्नं गुदे स्तने पृष्ठे शङ्खे मूर्द्धनि वर्ज्जयेत् ॥” असंश्लिष्टकपालमिति भग्नविशेषणम् । स्तने स्तनयोरन्तरे उरसि । मूर्द्धनि चूडस्थाने ॥ * ॥
अपरमप्यसाध्यमाह । “सम्यक्संहितमप्यस्थि दुर्न्यासाद्दुष्टबन्धनात् । संक्षोभाद्वापि यद्गच्छेद्विक्रियां तच्च वर्ज्जयेत् ॥” सम्यक्संहितमपि सम्यग्योजितमपि अस्थि दुर्न्यासात् दुःस्थापनात् संन्यस्तमपि दुष्टबन्धनात् सुबद्धमपि संक्षोभात् अभिघातादिना सञ्चल- नात् यद्विक्रियां गच्छेत् विकृतं भवति तद्वर्ज्ज- येत् ॥ अस्थिविशेषेण भग्नविशेषमाह । “तरुणास्थीनि नम्यन्ते भिद्यन्ते नलकानि तु । कपालानि विभज्यन्ते स्फुटन्ति रुचकानि च ॥ तरुणास्थीनि घ्राणकर्णाक्षिगुदेषु कोमलास्थीनि नम्यन्ते वक्रीभवन्ति । तेनात्र वक्रतालक्षणं भग्नम् । नलकानि नलादीनि नाडीवत् सरन्ध्रा- ण्यस्थिपर्व्वाणि भिद्यन्ते अस्थ्यन्तरानुप्रवेशाद्वि- दीर्य्यन्ते । कपालानि जानुनितम्बांसगण्डतालु- शङ्खशिरोऽस्थीनि विभज्यन्ते स्फुटन्ति रुच- कानि दन्ताः स्फु टन्ति त्रुटन्ति । अस्थीनि तरुणानलककपालरुचकबलयभेदात् पञ्च- विधानि । तत्र रुचकानि चेति । चकाराद्बल- यान्यपि त्रुटन्तीति बोद्धव्यम् । “पाण्योः पार्श्वयुगे पृष्ठे वक्षोजठरपायुषु । पादयोरपि चास्थीनि बलयानि बभाषिरे ॥” अथ भग्नस्य चिकित्सा । “भग्ने लेपाय मञ्जिष्ठामधुकञ्चाम्बुपेषितम् । शतधौतघृतोन्मिश्रं शालिपिष्टञ्च लेपनम् ॥” लेपात् पिष्टिकलवणैरम्लीका फलरसाभ्यां वा । सद्योऽभिघातजनिता रागरुजा श्वयथवः प्रशा- म्यन्ति । “सघृतञ्चास्थिसंहारं लाक्षागोधूममर्ज्जुनम् । सन्धिभग्नेऽस्थिसम्भग्ने पिबेत् क्षीरेण वा पुनः ॥” घृतेन पिबेत् क्षीरेण वेत्यर्थः । अस्थिसंहारः हडसिंहार इति लोके । “रसोनामधुलाक्षाज्यसिताकल्कं समश्नतः । छिन्नभिन्नव्युतास्थ्नाञ्च सन्धानमचिराद्भवेत ॥” “लाक्षास्थिसंहृत् ककुभाश्वगन्धा चूर्णीकृता नागवला पुरश्च । संभग्नमुक्तास्थिरुजो निहन्या- दङ्गानि कुर्य्यात् कुलिशोपमानि ॥” अस्थिसंहृत् हडसिंहार । लाक्षादिगुग्गुजुः ॥ “मांसं मांसरसः क्षीरं सर्पिर्यूषः कलायजः । बृंहणञ्चान्नपानञ्च देयं भग्नाय जानता ॥ लवणं कटुकं क्षारं मद्यं मैथुनमातपम् । रूक्षमन्नं श्रमञ्चापि भग्नः सेवेत न क्वचित् ॥” इति भावप्रकाशे भग्नाधिकारः ॥ (अथास्य निदानं यथा । पतनपीडनप्रहारा- क्षेपणव्यालमृगदशनप्रभृतिभिरभिघातविशेषै- रनेकविधमस्थ्नां भङ्गमुपदिशन्ति तत्तु भङ्गजात- मनुसार्य्यमाणं द्विविधमेवोत्पद्यते सन्धिमुक्तं काण्डभग्नञ्च ॥ इति सुश्रुते निदानस्थाने पञ्च- दशेऽध्याये ॥ अथ भग्नचिकित्सा । “भग्नास्थिञ्च नरं दृष्ट्वा तस्य वक्ष्यामि भेष- जम् । मणिबन्धे कूर्परे च जानौ भग्ने कटौ तथा ॥ पृष्ठवंशे विभग्ने च साध्यान्येतानि सत्तम ! । ग्रीवादेशे चेन्द्रवस्तौ रोहिण्यां कूर्परादधः ॥ स्कन्धकूर्परमध्ये च तथा च त्रिकमध्यतः । उरसि क्रोडके चैव विभग्नं तदसाध्यकम् ॥ विभग्नञ्च नरं दृष्ट्वा वेणुखण्डेन बन्धयेत् । म्रक्षयेन्नवनीतेनैरण्डपत्रैश्च वेष्टयेत् ॥ उष्णाम्भसा सेचयेच्च बस्त्रेण मृदु बन्धयेत् । धवार्ज्जु नकदम्बानां बल्कलं काञ्जिकेन तु ॥ पिष्ट्रा हितः प्रलेपश्च तेन सौख्यं प्रजायते । स्वेदयेत्तानि चोष्णेन आवासं कारयेत् पुनः ॥ एवं क्रिया समापत्तौ ततो बन्धं विमोचयेत् । एकाहान्तरिते नापि पूर्ब्बवत्तत् प्रबन्धयेत् ॥ यावद्ग्रन्थिं न बध्नाति तावन्न स्नापयेन्नरम् ॥ इति हारीते चिकित्सितस्थाने । ५६ अः ॥ अथ पथ्यविधिः । “शीताम्बुसेचनं पङ्कप्रदेहो बन्धनक्रिया । शालिप्रियङ्गुगोधूमा यूषो मुद्गसतीलयोः ॥ नवनीतं घृतं क्षीरं तैलं माषरसो मधु । पटोलं लशुनं शिग्रु पत्तूरो बालमूलकम् ॥ द्राक्षा धात्री वज्रवल्ली लाक्षा यच्चापि वृंहणम् । तत्सर्व्वं भिषजा नित्यं देयं भग्नाय जानता ॥” अथात्रापथ्यविधिः । “लवणं कटुकं क्षारमम्लं मैथुनमातपम् । व्यायामञ्च न सेवेत भग्नो रूक्षान्नमेव च ॥” इत्यायुर्व्वेदपथ्यापथ्यग्रन्थस्य भग्नाधिकारे ॥)
शब्दकल्पद्रुमः
भग्नं || त्रि (भन्ज् + क्तः । संघाद् विश्लिष्टत्वात् तथात्वम् ।)
पराजितम् । इति हेमचन्द्रः ॥ मुटितम् । चूर्णितम् । भाङ्गा इति भाषा । यथा, भट्टिः । “चिरकालोषितं जीर्णं कीटनिष्कुषितं धनुः । किं चित्रं यदि रामेण भग्नं क्षत्त्रियकान्तिके ॥”