संस्कृत-शब्दकोशः

भङ्गसार्थ भङ्गाकट

भङ्गा

शब्दकल्पद्रुमः

भङ्गा || स्त्री (भज्यते इति । भन्ज् + “हलश्च ।” ३ । ३ । १२१ । इति बाहुलकाद् घञ् टाप् ।)
वृक्षविशेषः । तत्पर्य्यायः । मातुलानी २ । इत्य- मरः । २ । ९ । २० ॥ (अस्याः पर्य्याया गुणाश्च यथा, “भङ्गा गजा मातुलानी मादिनी विजया जया । भङ्गा कफहरी तिक्ता ग्राहिणी पाचनी लघुः ॥ तीक्ष्णोष्णा पित्तला मोहमन्दवाग्वह्निवर्द्धिनी ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
द्वे भङ्गायां भङ्गा काश्मीरेषु स्वनामख्याता । इति सुभूत्यादयः । इति भरतः ॥ एतस्याः फलं कलायपरिमाणमिति सर्व्वस्वम् । इति सारसुन्दरी ॥ शणाख्यशस्यम् । यथा, — भङ्गा शस्ये शणाह्वये । इति मुकुटधृतरुद्रः ॥ त्रिवृता । तेउडी इति भाषा । यथा, —
“त्रिभण्डी रेचनी भङ्गा कलिङ्गा परिपाकिनी ॥” इति शब्दचन्द्रिका ॥ औषधविशेषः । भाङ् इति सिद्धि इति च भाषा । यथा, —
“त्रैलोक्यविजया भङ्गा विजयेन्द्राशनं जया ॥” इति शब्दचन्द्रिका ॥ अस्या गुणाः विजयाशब्दे द्रष्टव्याः ॥



Correction: