वाचस्पत्यम्
भङ्गुर || त्रि० भन्ज—घुरच् । १ स्वयं भञ्जनशीले जटा० । २ कुटिले २ नदीनां वक्रे च शब्दमा० । ४ प्रियङ्गौ ५ अतिविषायाम् च (आतैच्) स्त्री राजनि० ।
शब्दकल्पद्रुमः
भङ्गुरः || त्रि (भज्यते स्वयमेवेति । भन्ज + “भञ्ज- भासमिदो घुरच् ।” ३ । २ । १६१ । इति कर्म्म- कर्त्तरि घुरच् । घित्वात् कुत्वमिति काशिका । स्वयं भञ्जनशीलः । यथा, भागवते । ७ । ७ । ४३ । “कामान् कामयते काम्यैर्यदर्थमिह पूरुषः । स वै देहस्तु पारक्यो भङ्गुरो यात्युपैति च ॥”)
कुटिलः । इति जटाधरः ॥
शब्दकल्पद्रुमः
भङ्गुरः || पुं, (भञ्ज + धुरच् । कुत्वञ्च ।)
नद्या वङ्कः । इति शब्दमाल्य । नदीर वाँक इति भाषा ॥