वाचस्पत्यम्
भज || दीप्तौ चु० उभ० सक० सेट् इदित् । भाजयति—ते अबीभजत्—त
वाचस्पत्यम्
भज || पाके दाने च चु० उ० सक० सेट् । भाजयति—ते अबीभजत्त
वाचस्पत्यम्
भज || भागे पृथक्करणे सेवायाञ्च भ्वा० उभ० सक० अनिट् । भजति—ते अभाक्षीत् अभक्तबभाज भेजतुः भेजे ।
शब्दकल्पद्रुमः
भज || इक् भासि । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-अक०-सेट् ।)
इक् भञ्जयति । भासि दीप्तौ । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
भज || क पाके । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-सक०-सेट् ।)
क भाजयति । विश्राणने इति प्राञ्चः । विश्राणनं दानम् । इति दुर्गा- दासः ॥
शब्दकल्पद्रुमः
भज || ञ औ भागसेवयोः । इति कविकल्पद्रुमः ॥ (भ्वा०-उभ०-सक०-अनिट् ।)
ञ विभजति विभजते धनं भ्राता । औ अभाक्षीत् कृष्णं साधुः । इति दुर्गादासः ॥