वाचस्पत्यम्
भजमान || त्रि० भज—शानच् । १ न्यायागतद्रव्यादौ २ विभाजके ३ सेवके च । सात्त्वतो नृपस्य कोशल्यागर्भजाते ४ पुत्रभेदे पु० हरिवं० ३८ अ० ।
शब्दकल्पद्रुमः
भजमानः || त्रि (भजते फलमनुबध्नातीति । भज + “ताच्छील्यवयोवचनशक्तिषु चानश् ।” १ । २ । १२९ । इति आनश् । शानज् वा ।)
न्याय्यम् । न्यायागतद्रव्यादिः । इत्यमरः । २ । ८ । २४ ॥ भागकर्त्ता । सेवाकर्त्ता । इति भजधातोः कर्त्तरि शानप्रत्ययेन निष्पन्नम् ॥ (सात्वतनृपस्य पुत्त्रभेदः । यथा, भागवते । ९ । २४ । ६ । “पुरुहोत्रस्त्वनोः पुत्त्रस्तस्यायुः सात्वतस्ततः । भजमानो भजिर्दिव्योवृष्णिर्देवावृधोऽन्धकः ॥”)