शब्दकल्पद्रुमः
भजनं || क्ली (भज + भावे ल्युट् ।) भागः । सेवा । इति भजधातोर्भावे अनट्प्रत्ययेन निष्पन्नम् । “दारास्ते ये भजनसहायाः पुत्त्रास्ते ये तद्धनकायाः । धनमपि तद्वद्धरिभजनार्थं नो चेदेतत् सर्व्वं व्यर्थम् ॥” इति मोहमुद्गरः ॥