संस्कृत-शब्दकोशः

भञ्जन भञ्जनागिरि

भञ्जनक

वाचस्पत्यम्

भञ्जनक ||‍ पु० मुखरोगभेदे “वक्त्रं वक्रं भवेद्यस्य दन्तभङ्गश्च जायते । कफवातकृतो व्याधिः स भञ्जनकसंज्ञितः” माधवकरः ।


शब्दकल्पद्रुमः

भञ्जनकः || पुं, (भनक्ति आमर्द्दयतीति । भञ्ज + ल्युः । ततः स्वार्थे संज्ञायां वा कन् ।)
मुखरोग- विशेषः । तस्य निदानादि यथा, —
“वक्त्रं वक्रं भवेद्यस्य दन्तभङ्गश्च जायते । कफवातकृतो व्याधिः स भञ्जनकसंज्ञितः ॥” इति माधवकरः ॥



Correction: