संस्कृत-शब्दकोशः

भट्टार भट्टारकवार

भट्टारक

शब्दकल्पद्रुमः

भट्टारकः || पुं, (भट्टार । संज्ञायां कन् ।)
नाट्योक्तौ राजा । इत्यमरः । १ । ७ । १३ ॥ देवः । तपोधनः । इति मेदिनी । के, २५० ॥ पूज्ये त्रि । इति जटाधरः ॥ (यथा, राजतरङ्गिण्याम् । ६ । २४० । “प्रविष्टेषु ततः कोपात् पुरं शुभधरादिषु । भट्टारकामठेदिद्दा भूयः पुत्त्रं व्यसर्ज्जयत् ॥”)



Correction: