संस्कृत-शब्दकोशः

भट्टारकवार भट्टिनी

भट्टि

वाचस्पत्यम्

भट्टि ||‍ पु० १ द्वाविंशतिसर्गात्मके महाकाव्यभेदे तच्च जयमङ्गलेन श्रीधरस्वामिसूनो महाब्राह्मणस्य महावैयाकरणस्य भट्टेः कृतिरित्युक्तं भरतमल्लिकेन भर्तृहरिणा कृतमित्युक्तं तच्चिन्त्यं “काव्यमिदं विहितं मया बलभ्यां श्रीधरसेनन रेन्द्रपालितायाम्” तत्र द्वाविंशसर्गश्लोके उक्तेः न भर्तृ- हरिकृतत्वम् भर्तृहरेरुज्जयिनीवास्तव्यत्वेन तन्नृपति- त्वेन च नृपान्तरराजधानीवास्तव्यत्वोक्तेरनुचितत्वात् ।


शब्दकल्पद्रुमः

भट्टिः || पुं, स्वनामख्यातरामकथाश्रयमहाकाव्यम् । तत्तु बलभीवास्तव्यश्रीस्वामिसूनुभट्टमहाब्राह्मण- महावैयाकरणेन कृतम् । इति जयमङ्गलकृता तट्टीका ॥ एतत् काव्यं भर्त्तृहरिणा कृतमिति भरतमल्लिकेनं लिखितम् ॥



Correction: