संस्कृत-शब्दकोशः

भट्टि भट्टोजि

भट्टिनी

वाचस्पत्यम्

भट्टिनी ||‍ स्त्री भट्टं स्वामित्वमस्यास्ति इनि ङीप् । नाट्योक्तौ १ अकृताभिषेकायां राज्ञः स्त्रियाम् अमरः । २ विप्र- भार्य्यायाम् मेदि० ।


शब्दकल्पद्रुमः

भट्टिनी || स्त्री (भट्टं स्वामित्वमस्या अस्तीति । भट्ट + इनिः + ङीप् ।)
नाट्योक्तौ अकृताभि- षेका राजपत्नी । इत्यमर । १ । ७ । १३ ॥ ब्राह्मणभार्य्या । इति मेदिनी । ने, ३१ ॥



Correction: