वाचस्पत्यम्
भण्टाकी || स्त्री भटि—षाकन् ङीष् । १ वार्त्ताक्याम्, अमरः । २ वृहत्यां रत्नमाला ।
शब्दकल्पद्रुमः
भण्टाकी || स्त्री (भठ्यते भण्यते वा । भट् भृतौ भणशब्दे वा + “पिनाकादयश्च ।” उणा० । ४ । १५ । इति आक । निपात्यते च । गौरादित्वात् ङीष् ।)
वार्त्ताकी । इत्यमरः । २ । ४ । ११४ ॥ बृहती । इति रत्नमाला ॥ (वृन्ताकम् । तत्- पर्य्यायो यथा, —
“वृन्ताकं स्त्री तु वार्त्ताकुर्भर्ण्टाकी भाण्टि- कापि च ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)