वाचस्पत्यम्
भण्डूक is an alternate of भण्डुक. भण्डु(ण्डू)क || पु० भडि—उक ऊक वा । (भाङ्गन) मत्स्यभेदे रत्नमाला । दीर्घमध्यः २ श्योनाकवृक्षे रत्नमाला ।
शब्दकल्पद्रुमः
भण्डूकः || पुं, (भडि + ऊक् ।)
मत्स्यविशेषः । भाकुर इति भाषा । अस्य गुणाः । मधुरत्वम् । शीतत्वम् । वृष्यत्वम् । श्लेष्मकरत्वम् । गुरुत्वम् । विष्टम्भित्वम् । रक्तपित्तहरत्वञ्च । इति भाव- प्रकाशः ॥ श्योनाकवृक्षः । इति रत्नमाला ॥