संस्कृत-शब्दकोशः

भद भदाक

भदन्त

वाचस्पत्यम्

भदन्त ||‍ पु० भदि—भ्वच् नलीपः । १ बोद्धभेदे । २ पूजिते त्रि० । उणादि० ३ प्रव्रजिते उज्ज्वल० ।


शब्दकल्पद्रुमः

भदन्तः || पुं, (भन्दते इति । भदि कल्याणे + “भन्दे- र्नलोपश्च ।” उणा० ३ । १३० । इति झच् । नलोपश्च ।)
सौगतादिबुद्धः । इति हेमचन्द्रः ॥ मायादेवीमुतः । सुतेजः । पूजिते, त्रि । इत्युणा- दिकोषः ॥ (भदन्तः प्रव्रजितः । इत्युणादौ । ३ । १३० । सूत्रव्याख्यायां उज्ज्वलदत्तः । यथा, कथासरित्सागरे । ४९ । १७८ । “तत्रान्विष्य यथावत् तं भदन्तमभिगम्य च । परिचर्य्यापरो भक्त्या त्रीणि वर्षाण्यशेषतः ॥”)



Correction: