संस्कृत-शब्दकोशः

भद्र भद्रकण्ट

भद्रक

वाचस्पत्यम्

भद्रक ||‍ त्रि० भद्र—स्वार्थे संज्ञायां वा कन् । १ मनोहरे त्रिका० । २ भद्रमुस्तके न० शब्दमाला । ३ देवदारुवृक्षे शब्दर० । “भ्रौ नरनारनावथ गुरुर्दिगर्कविरसं हि भद्रकमिदम्” । वृ० र० उक्ते द्वाविंशत्यक्षरपादके ४ छन्दोभेदे ।


शब्दकल्पद्रुमः

भद्रकं || क्ली (भद्र + संज्ञायां स्वार्थे वा कन् ।)
भद्रमुस्तकम् । इति रत्नमाला ॥ (देवदारु- शब्देऽस्य विषयोऽभिहितः ॥)
मनोज्ञे, त्रि । इति त्रिकाण्डशेषः ॥


शब्दकल्पद्रुमः

भद्रकः || पुं, (भद्र + संज्ञायां कन् ।)
देवदारुः । इति शब्दरत्नावली ॥



Correction: