संस्कृत-शब्दकोशः

भद्रकार भद्रकाशी

भद्रकाली

वाचस्पत्यम्

भद्रकाली ||‍ स्त्री १ दुर्गाशक्तिभेदे “जयन्ती मङ्गला काली भद्र- काली कपालिनी” दुर्गापूजामन्त्रः । तदाविर्भावकथा च कलिपु० ५० अ० दृश्या । तन्मन्त्रादिकं तन्त्रसारे दृश्यम् । २ कुमारानुचरभेदे भा० श० ४७ अ० ।


शब्दकल्पद्रुमः

भद्रकाली || स्त्री (भद्रा मङ्गलमयी चासौ काली चेति कर्म्मधारयः । यद्वा, भद्रं कल्याणं कालयतीति । भद्र + कर्म्मण्यण् ।” ३ । २ । १ । इति अण् । ङीप् ।)
गन्धोली । कात्यायनी । इति मेदिनी । ले, १५८ । तस्या उत्पत्तिर्यथा, — श्रीऔर्व्व उवाच । “शृणु त्वं नृपशार्दूल ! भद्रकाली यथा पुरा । प्रादुर्भूता महाभागा महिषेण सदैव तु ॥ महिषासुर एवासौ निद्रायां निशि पर्व्वते । स्वप्नं प्रददृशे वीरो दारुणं घोरदर्शनम् ॥ महामाया भद्रकाली छित्त्वा खड्गेन काशरम् । पपौ तस्य च रक्तानि व्यादितास्यातिभीषणा ॥ ततः प्रातर्भययुतः स दैत्यो महिषासुरः । तामेव पूजयामास सुचिरं सानुगस्तदा ॥ आराधिता तदा देवी महिषेणासुरेण वै । प्रादुर्भूता भद्रकाली भुजैः षोडशभिर्युता ॥ ततः प्रणम्य महिषो महामायां जगन्मयीम् । उवाचेदं वचो नम्रमूर्त्तिर्भक्तियुतोऽसुरः ॥ महिष उवाच । देवि ! खड्गेन संछिद्य शोणितानि शिरो मम । त्वया भुक्तानि दृष्टानि मया स्वप्ने सुनिश्चितम् ॥ अवश्यं तत्त्वया कार्य्यं मया ज्ञातं प्रमाणतः । एतद्रुधिरपानं मे तत्रैकं देहि मे वरम् ॥ वध्यस्तवाहं नात्रास्ति संशयः परमेश्वरि ! । ममापि तत्र नो दुःखं नियतिः केन लङ्घ्यते ॥ किन्तु त्वयैव सहितः शम्भुराराधितः पुरा । मम पित्रा मदर्थेन जातः पश्चादहं ततः ॥ मयाप्याराधितः शम्भुः प्राप्ताश्चेष्टास्तथा वराः । मन्वन्तरत्रयं यावदासुरं राज्यमुत्तमम् । अकण्टकं मया भुक्तमनुतापो न विद्यते ॥ कात्यायनेन मुनिना शप्तोऽहं शिष्यकारणात् । सीमन्तिनी विनाशं ते करिष्यति न संशयः ॥ पुरा मुनिं तपस्यन्तं रौद्राश्वं नाम चोत्तमम् । मुनेः कात्यायनाख्यस्य शिष्यं हिमवदन्तिके ॥ दिव्यस्त्रीरूपमतुलं कृत्वाहं कौतुकात्तदा । मया संमोहितो विप्रोऽत्यजन्मूढस्तदा तपः ॥ न दूरात् संस्थितेनाहं मुनिना कात्यसूनुना । ज्ञात्वा मायां तदा शप्तः शिष्यार्थे क्रोधवह्निना ॥ यस्मात्त्वया मे शिष्योऽयं मोहितस्तपसश्च्युतः । कृतस्त्वया स्त्रीरूपेण ततस्त्वां स्त्री हनिष्यति ॥ इति मां शप्तवान् पूर्ब्बं मुनिः कात्यायनः पुरा । तस्य शापस्य कालोऽयमागत्य समुपस्थितः ॥ देवेन्द्रत्वं मया प्राप्तं भुक्तं त्रिभुवनं समम् । किञ्चिन्न शोच्यं तत्रास्ति वाञ्छनीयं हि यन्मया ॥ तस्मात्त्वां वै प्रपन्नोऽहं प्रार्थ्यं शेषं हि यन्मया । तद्देहि देवि दुर्गे ! त्वं भूयस्तुभ्यं नमो नमः ॥ श्रीदेव्युवाच । “प्रार्थनीयो वरो यस्ते तं वृणु त्वं महासुर ! । दास्यामि ते वरं प्रार्थ्यं संशयो नात्र विद्यते ॥” महिष उवाच । “यज्ञभागमहं भोक्तुमिच्छामि त्वत्प्रसादतः । यथा यज्ञेषु सर्व्वेषु पूज्योऽहं स्यां तथा कुरु ॥ त्वत्पादसेवां न त्यक्ष्ये यावत् सूर्य्यः प्रवर्त्तते । एवं वरद्वयं देहि यदि देयो वरो मम ॥” श्रीदेव्युवाच । “यज्ञभागाः सुरेभ्यश्च कल्पिता वै पृथक् पृथक् । भागो न विद्यते चान्यो यद्दास्यामि तवाधुना ॥ किन्तु त्वयि मया युद्धे निहते महिषासुर ! । नैव त्यक्ष्यसि मत्पादं सततं नात्र संशयः ॥ मम प्रवर्त्तते पूजा यत्र यत्र च तत्र ते । पूज्यश्चिन्त्यश्च तत्रैव कायोऽयं तव दानव ! ॥ इति श्रुत्वा वचस्तस्याः प्रत्यूचे महिषासुरः । वरं प्राप्येह मुदितः प्रसन्नवदनस्तदा ॥ उग्रचण्डे ! भद्रकालि ! दुर्गे देवि ! नमोऽस्तु ते । प्रभूता मूर्त्तयो देवि ! भवत्याः सकलात्मिकाः ॥ काभिस्ते मूर्त्तिभिः पूज्यो यज्ञेऽहं परमेश्वरि ! । तत् समाचक्ष्व यदि मे भवत्येह कृपा कृता ॥” श्रीदेव्युवाच । “यानि नामानि चोक्तानि त्वयेहं महिषासुर ! । तासु मूर्त्तिषु संस्पृष्टः पूज्यो लोके भविष्यति ॥ उग्रचण्डेति या मूर्त्तिर्भद्रकाली ह्यहं पुनः । यया मूर्त्त्या त्वां हतिष्ये सा दुर्गेति प्रकीर्त्तिता ॥ एतासु मूर्त्तिषु सदा पादलग्नो नृणां सदा । पूज्यो भविष्यसि त्वं वै देवानामपि रक्षसाम् ॥ आदिसृष्ट्या उग्रचण्डामूर्त्त्या त्वं निहतः पुरा । द्बितीयसृष्टौ तु भवान् भद्रकाल्या मया हतः ॥ दुर्गारूपेणाधुना त्वां हनिष्यामि सहानुगम् । किन्तु पूर्ब्बं न गृहीतस्त्वं मया पादयोस्तले ॥ अधुना प्रार्थितवरो गृहीतः पूर्ब्बकाययोः । ग्रहीतव्यश्च पश्चात्त्वं यज्ञभागोपभुक्तये ॥” इति कालिकापुराणे ५९ अध्यायः ॥ * ॥
गङ्गायाः पश्चिमे तीरे ग्रामविशेषश्च ॥



Correction: