संस्कृत-शब्दकोशः

भद्रदारु भद्रद्वीप

भद्रदार्वादिक

शब्दकल्पद्रुमः

भद्रदार्व्वादिकः || पुं, (भद्रदारु आदौ यस्य कप् ।)
औषधगणविशेषः । यथा । भद्रदारुकुष्ठहरिद्रा- वरुणमेषशृङ्गीबलातिबलार्त्तगलकच्छुरासल्लकी- कुवेराक्षीवीरतरुसहचराग्निमन्थवत्सादन्येर- ण्डाश्मभेदकालर्कार्कशतावरीपुनर्नवावसुकवसि- रकाञ्चनकभार्गीकाप्पासीवृश्चिकालीपत्तूरवदर- यवकोलकुषत्थप्रभृतीनि । इति सुश्रुतसूत्र- स्थानस्य संशोधनसंशमनीयाध्यायः ॥ * ॥
अपिच । “देवदारु हरिद्रे द्वे वरुणः कुष्ठमेव च । महानिम्बं नागबला श्यामला गरलोऽपरः ॥ पाटला चात्मगुप्ता च शुण्ठी पाषाणभेदिका । शतावरी चार्कमूतं गुडूची गणिकारिका ॥ पुनर्नवा च वास्तूकसूर्य्यावर्त्तककानतम । गोक्षुरं शरमूलञ्च कुशमूलं समांसिकम् ॥ ऊनचत्वारिंशद्द्रव्यैर्भद्रदार्व्वादिको गणः ॥” इति शब्दचन्द्रिका ॥ * ॥
एतन्मध्ये चतुर्दशद्रव्याणि न प्राप्तानि ॥



Correction: