संस्कृत-शब्दकोशः

भद्रमुख भद्रमुस्तक

भद्रमुञ्ज

वाचस्पत्यम्

भद्रमुञ्ज ||‍ पु० कर्म० । शरभेदे भावप्र० ।


शब्दकल्पद्रुमः

भद्रमुञ्जः || पुं, (भद्रो मुञ्ज इति कर्म्मघारयः ।)
मुञ्जभेदः । रामशर इति शरपत इति च भाषा । तत्पर्य्यायः । शरः २ बाणः ३ तेजनः ४ इक्षुवेष्टनः ५ । अथ मुञ्जस्य पर्य्यायः । मुञ्जः १ मुञ्जातकः २ बाणः ३ स्थूलदर्भः ४ सुमेधसः ५ । एतयोर्गुणाः । “मुञ्जद्वयन्तु मधुरं तुवरं शिविरं तथा । दाहतृष्णाविसर्पास्रमूत्रवस्त्यक्षिरोगजित् ॥ दोषत्रयहरं वृष्यं मेखलासूपयुज्यते ॥” इति भावप्रकाशः ॥



Correction: