वाचस्पत्यम्
भद्रसोमा || स्त्री भद्रः सोम इव द्रवोऽस्याः । १ गङ्गायां शब्दमा० २ कुरुवर्षस्थे नदीभेदे मार्कपु० ५९ अ० ।
शब्दकल्पद्रुमः
भद्रसोमा || स्त्री (भद्रः सोम इवास्या द्रव इति । टाप् ।)
गङ्गा । इति शब्दमाला ॥ (कुरुवर्षस्थनदीविशेषः । यथा, मार्कण्डेये । ५९ । २३ । “तस्मिन् कुलाचलौ वर्षे तन्मध्ये च महानदी । भद्रसोमा प्रयात्युर्व्व्यां पुण्यामलजलौघिनी ॥”)