संस्कृत-शब्दकोशः

भद्रसोमा भद्राकरण

भद्रा

वाचस्पत्यम्

भद्रा ||‍ स्त्री भद्राश्ववर्षस्थे १ नदीभेदे २ बिष्टिभद्रादौ भद्रशब्दे दृश्यम् ।


शब्दकल्पद्रुमः

भद्रा || स्त्री (भद्र + अजादित्वात् टाप् ।)
रास्ना । कृष्णा । व्योमनदी । तिथिभेदः । सा तु द्बितीया सप्तमी द्वादशी च ॥ प्रसारिणी । (अस्याः पर्य्यायो यथा, —
“प्रसारिणी राजबला भद्रपर्णी प्रतापनी । सरणी सारणो भद्रा बला चापि कटम्भरा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
कट्फलम् । अनन्ता । इति मेदिनी । रे, ७१ ॥ जीवन्ती । अपराजिता । नीली । बला । शमी । वचा । दन्ती । हरिद्रा । श्वेतदूर्व्वा । काश्मरी । (पर्य्यायोऽस्या यथा, —
“श्रीपर्णी काश्मरी भद्रा गाम्भारी गोपभद्रिका । कुमुदा च सदाभद्रा कट्फला कृष्णवृन्तिका ॥” इति वैद्यकरत्नमालायाम् ॥ चन्द्रशूरः । तत्पर्य्यायो यथा, —
“चन्द्रिका चर्म्महन्त्री च पशुमेहनकारिका । नन्दिनी कारवी भद्रा वासपुष्पा सुवासरा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
सारिवाविशेषः । गौः । इति राजनिर्घण्टः ॥ काकोडुम्बरिका । इति रत्नमाला ॥ (भद्राश्व- वर्षस्थनदीभेदः । यथा, मार्कण्डेये । ५९ । ७ । “शीता शङ्खावती भद्रा चक्रावर्त्तादिका- स्तथा ॥”)
गङ्गायास्त्रिश्रोतोऽन्तर्गतश्रोतोविशेषः । तत्तु उत्तरे कुरुवर्षीयगङ्गा । इति पुराणं शब्द- माला च ॥ बुद्धशक्तिविशेषः । तत्पर्य्यायः । तारा २ महाश्रीः ४ ओङ्कारा ४ स्वाहा ५ श्रीः ६ मनोरमा ७ तारिणी ८ जया ९ अनन्ता १० शिवा ११ लोकेश्वरात्मजा १२ खदूर- वासिनी १३ वैश्या १४ नीलसरस्वती १५ शङ्खिनी १६ महातारा १७ वसुधारा १८ धनन्ददा १९ त्रिलोचना २० लोचना २१ । इति त्रिकाण्डशेषः ॥ छायागर्भजाता सूर्य्य- कन्या । यथा, —
“यमलौ तु ततस्तस्यां जनयामास भास्करः । शनेश्चरञ्च भद्राञ्च छायायाममितद्युतिः ॥ तथा च तेजसा विष्णोस्तस्य चक्रमवर्त्तयत् । तदप्रतिहते युद्धे दानवान्तचिकीर्षया । तद्भगिनी मुखतो भद्रा नियुक्तैवं विगर्हिता ॥” इति वह्रिपुराणे वैवस्वतानुकीर्त्तनम् ॥ सुभद्रा । यथा, —
“आषाढस्य सिते पक्षे द्बितीया पुष्यसंयुता । तस्यां रथे समारोप्य रामं मां भद्रया सह ॥” इति स्कान्दे भगवद्वाक्यम् ॥ * ॥
विष्टिभद्रा यथा, —
“एकादश्यां चतुर्थ्यान्तु शेषार्द्धे शुक्लपक्षके । अष्टमीपौर्णमास्योस्तु पूर्ब्बार्द्धे विष्टिसम्भवः ॥ कृष्णपक्षे तृतीयाया दशम्याश्च परार्द्धतः । सप्तम्याश्च चतुर्द्दश्याः पूर्ब्बार्द्धे विष्टिरीरिता ॥ विहाय विषरोद्राणि विष्टिं सर्व्वत्र वर्जयेत् । विष्टिशेषे त्रिदण्डे हि पुच्छे कार्य्यं जयावहम् ॥” कर्म्मप्रकाशे तस्या अङ्गविशेषो यथा, —
“नाड्यस्तु पञ्चवदनं गलकस्तथैका वक्षो दशैकसहिता नियतं चतस्रः । नाभिः कटिः षडथ पुच्छलता च तिस्रो विष्टेर्ध्रुवं निगदितोऽङ्गविभाग एषः ॥” अङ्गविशेषे कार्य्यध्वंसादिफलम् यथा, —
“मुखे कार्य्यध्वंसो भवति मरणञ्चाथ गलके धनग्लानिर्वक्षस्यथ कटितटैर्बुद्धिविलयः । कलिर्नाभीदेशे विजयमथ पुच्छे च जगदुः शरीरे भद्रायाः पृथगिति फलं सर्व्वमुनयः ॥” मनुवसुमुनितिथियुगदशशिवगुणसंख्यासु तिथिषु पूर्ब्बाद्यास्यम् । आयाति विष्टिरेषा पृष्ठे शुभदा पुरस्त्वशुभा ॥ चतुर्द्दश्यादिषु पूर्ब्बाग्न्यादिमुखं भवतीत्यर्थः । इति ज्योतिस्तत्त्वम् ॥



Correction: