वाचस्पत्यम्
भद्रिका || स्त्री भद्रा + स्वार्थे क । १ पक्षयोः द्वितीयासप्तमी- द्वादशीषु तिथिषु । २ योगिनीदर्शान्तर्गतायां पञ्चम्यां दशायाम् “मङ्गला । मङ्गला धान्या भ्रामरी भद्रिका तथा” दशाशब्दे दृश्यम् । “भद्रिका भवति रो नरौ” वृ० र० उक्ते नवाक्षरपादके ३ छन्दोभेदे “ननरलगुरुभिश्च भद्रिका” वृ० र० उक्ते ४ एकादशाक्षरपादके छन्दोभेदे च ।