वाचस्पत्यम्
भद्रेश्वर || पु० १ शिवलिङ्गभेदे । २ कल्पग्रामस्य शिवलिङ्गभेदे च वामनपु० ४६ अ० ।
शब्दकल्पद्रुमः
भद्रेश्वरः || पुं, (भद्रः शुभदश्चासावीश्वरश्चेति भद्रा- त्मकः मङ्गलमय ईश्वरो वेति ।)
कल्पग्रामस्थ- शिवः । यथा, —
“उत्तिष्ठ कान्त ! गच्छावः कल्पग्रामं सुशो- भनम् । तया सार्द्धं जगामाथ कल्पग्रामं वसुन्धरे ! ॥ भद्रेश्वरनिमित्तं हि द्रव्यञ्च कथितं शुभम् । नित्यञ्च भुञ्जते यत्र पात्रद्रव्यं समर्पितम् ॥ दृष्ट्वा भद्रेश्वरं देवं चक्रतीर्थफलं लभेत् । कल्पग्रामाच्छतगुणं चक्रतीर्थं वसुन्धरे ! ॥” इति वाराहे मथुरामाहात्म्ये चक्रतीर्थप्रभावो नामाध्यायः ॥ शिवप्राप्त्यर्थं दुर्गाराधितहिमालयस्थपार्थिव- शिवलिङ्गम् । यथा, —
“तवार्थाय ग्रहीष्यामि महर्षीन् हिमवद्गृहे । यश्चेह रुद्रमीहन्त्या मृण्मयश्चेश्वरः कृतः ॥ असौ भद्रेश्वरेत्येवं ख्याते लोके भविष्यति । देवदानवगन्धर्व्वा यक्षकिम्पुरुषोरगाः ॥ पूजयिष्यन्ति सततं मानवाश्च शुभेप्सवः ॥ इति वामनपुराणे ४६ अध्याये उमां प्रति शिववाक्यम् ॥ गङ्गायाः पश्चिमतीरे गरिट्याख्य- ग्रामस्योत्तरे पाषाणमयशिवलिङ्गविशेषो ग्राम- विशेषश्च ॥