वाचस्पत्यम्
भयावह || त्रि० भयमावहति आ + वह—अच् ६ त० । भय- कारके हेमच० ।
शब्दकल्पद्रुमः
भयावहः || त्रि (आवहतीति । आ + वह् + अच् । भयस्यावहः इति ।)
भयङ्करः । इति हेमचन्द्रः ॥ (तथा, भगवद्गीतायाम् । ३ । ३५ । “श्रेयान् स्वधर्म्मो विगुणः परधर्म्मात् स्वनुष्ठितात् । स्वधर्म्मे निधनं श्रेयः परधर्म्मो भयावहः ॥”)