शब्दकल्पद्रुमः
भरण्यभुक् || त्रि (भरण्यं वेतनं भुनक्ति इति । भुज् + क्विप् ।) कर्म्मकरः । मूल्यं गृहीत्वा कर्म्मकारकः । इत्यमरः । ३ । १ । १९ ॥