संस्कृत-शब्दकोशः

भरतखण्ड भरतपुत्रक

भरतद्वादशाह

वाचस्पत्यम्

भरतद्वादशाह ||‍ पु० भरतकृते द्वादशाहसाध्ये यज्ञभेदे “सर्वाग्निष्टोमो भरतद्वादशाहः” कात्या० श्रौ० २४ । ७ । १२ । “तत्र यज्ञे सर्वाग्निष्टोमा भवन्ति प्रायणीयोदनीयबर्जम् । तेन दशरात्रस्य स्थाने दशाप्यग्निष्टोमाः भवन्ति आद्य- न्तयोः प्रायणीयोदनीययोरतिरात्रावेव” संग्रहव्याख्या आश्व० श्रौ० १० । ५ । ८ सूत्रादौ तु अन्यथोक्तं यथा “अथ भरतद्वादशाहः” सू० “अथशब्दोऽहीनकैवल्यबुद्धि- विच्छेदार्थः । सत्राहीनसाधारणाश्चत्वारो द्वादशाहा उक्ताः । तत एकोऽहीन उक्तः । उत्तमश्च साधारण एवमतस्तविच्छेदार्थममथशब्दः प्रयुक्तः” नारा० । “इममेवेकाहं पृथक् संस्थाभिरुपेयुः” सू० “भरतद्वादशाह स्याहःकॢप्तिः । इममेव प्रकृतैकाहं पृथग्भूतामिः संस्थाभिर्युक्तं द्वादशकृत्वः कुर्य्युः । विकृतिषु प्रकृतेः मनिहितत्वादिदमुच्यते । उत्तरत्र संस्थाविधानादेव संस्था- सम्बन्धे सिद्धे पृथक्सस्थाभिरितिवचनं वचनादेव स्थान- नियमो नातिदेशादिति ज्ञाषनार्थम्” नारा० । “अतिरात्र- मग्रेऽथाग्निष्टोममथाष्टा उक्थ्यानथाग्निष्टोममथाति- रात्रम्” सू० “द्वादशाहमामान्येन प्राप्तानां संस्थानां विधीयमानो भरतद्वादशाहे अयमपवादः” नारा० ।



Correction: