वाचस्पत्यम्
भरिमन् || पु० भृ—कर्मणि इमनिच् । १ कुटुम्बे उज्ज्वल० । भावे इमनिच् । २ भरणे उणादिको० कर्त्तरि इमनिच् ३ विष्णौ सि० कौ० ।
शब्दकल्पद्रुमः
भरिमा || [न्] पुं, (भृ + “हृभृधृसृस्तृशॄभ्य इम- निच् ।” उणा० ४ । १४७ । इति भावे इम- निच् ।)
भरणम् । इत्युणादिकोषः ॥ (भ्रियते इति । कुटुम्बः । इत्यज्ज्वलदत्तः ॥)