वाचस्पत्यम्
भर्गस् || पु० भृज—असुन् न्यङ्क्वा० । तेजसि ऋ०१ । १४१ । १ ।
शब्दकल्पद्रुमः
भर्गः || [स्] क्ली, (भर्जते इति । भृज भर्जने + “अञ्च्यञ्जियुजिभृजिभ्यः कुश्च ।” उणा ० ४ । २१५ । इति असुन् कवर्गश्चान्तादेशः ।)
ज्योतिः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ (यथा, ऋग्वेदे । ३ । ६२ । १० । “तत् सवितुर्वरेण्यं भर्गो देवस्य धीमहि ॥”)